________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- ९७]
बलात्कार गण--प्राचीन
उदभूद् भूभृतस्तस्माद् राजा हरिहरेश्वरः। कलाकलापनिलयो विधुः क्षीरनिधेरिव ॥ १६ आसीत्तस्य महीजानेः शक्तित्रयसमन्वितः। कुलक्रमागतो मंत्री चैचदण्डाधिनायकः ॥ १९ तस्य श्रीचैचदण्डाधिनायकस्योर्जितश्रियः। आसीदिरुगदण्डेशो नंदनो लोकनंदनः ॥ २० स्वस्ति शकवर्षे १३०७ प्रवर्तमाने क्रोधनवत्सरे फाल्गुनमासे कृष्णपक्षे द्वितीयायां तिथौ शुक्रवासरे। अस्ति विस्तीर्णकर्णाटधरामंडलमध्यगः । विषयः कुंतलो नाना भूकांताकुंतलोपमः ॥ २५ विचित्ररत्नरुचिरं तत्रास्ति विजयाभिधं । नगरं सौधसंदोहदर्शिताकांडचंद्रिकम् ॥ २६ तस्मिन्निरुगदंडेशः पुरे चारु शिलामयम् । श्रीकुन्थुजिननाथस्य चैत्यालयमचीकरत् ॥ २८ भद्रमस्तु जिनशासनाय ।
(भा. १ कि. ४ पृ. ९.) लेखांक ९७ - न्यायदीपिका
मद्गुरोर्वर्धमानेशो वर्धमानदयानिधेः ।
श्रीपादस्नेहसंबंधात् सिद्धेयं न्यायदीपिका ॥ १ इति श्रीमद्वर्धमानभट्टारकाचार्यगुरुकारुण्यसिद्ध-सारस्वतोदयश्रीमदभिनवधर्मभूषणाचार्यविरचितायां न्यायदीपिकायामागमप्रकाशः समाप्तः ।
(अ. १ पृ. २७२)
For Private And Personal Use Only