________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलयकीर्ति
२५४ भट्टारक संप्रदाय
[६३७ - विजयराज पालयति सति उदयराज शैल श्रीमजिनेन्द्राराधनतत्परपर्यन्त बागड प्रतिपात्रो श्रीसंघ भ. श्रीधर्मकीर्तिगुरूपदेशेन...काष्ठासंघे श्रीविमलनाथ का जिन बिम्ब प्रतिष्ठितं ॥
( केशरियाजी, वीर २ पृ. ४६० ) लेखांक ६३८ - (मूलाचार)
मुनींद्रोनंतकीर्तिस्तु धुर्यो विजयसेनकः । जयसेनो गणाध्यक्षो वादिशुण्डालकेसरी ॥ १५ प्रमाणनयनिक्षेपैहेत्वाभासादिभिः परैः । विजेता वादिवृन्दस्य सेनः केशवपूर्वकः ॥ १६ चरित्रसेनः कुशलो मीमांसावनितापतिः । वेदवेदांगतत्त्वज्ञो योगी योगविदां वरः ॥ १७ तस्य पट्टे बभूव श्रीपद्मसेनो जितांगभूः । श्मश्रुयुक्तसरस्वत्या बिरुदं यस्य भासते ।। १८ तत्पट्टे व्योमतारेशः संसृतेधर्मनाशकृत् । तपसा सूर्यवर्चस्को यमिनां पदमुत्तमम् ॥ १९ प्राप्तः करोत्वेते त्रिभुवनोत्तरकीर्तिभाक् ।। कल्याणं संपदः सर्वाः सर्वामरनमस्कृतः ।। २० श्रीधर्मकीर्तिर्भुवने प्रसिद्धस्तत्पट्टरत्नाकरचंद्ररोचिः । पदतर्कवेत्ता गतमानमायक्रोधारिलोभोऽभवदत्र पुण्यः ।। २१ तस्य पादसरोजालिर्गुणमूर्तिर्विचक्षणः । मलयोत्तरकीर्तिर्वा मुदं कुर्यादिगंबरः ।। २२ हेमकीर्तिर्गुणज्येष्ठो ज्येष्ठो मत्तः कुशाग्रधीः । धर्मध्यानरतः शान्तो दान्तः सूनृतवाग्यमी ॥ २३ ततोऽनुजो मुनींद्रस्तु सहस्रोत्तरकीर्तियुक् । गुर्जरी जगतीं शास्तो द्वौ यती महिमोदयौ ॥ २४ वयं त्रयोपि धीमन्तः साधीयांसो निरेनसः । धर्मकीर्तेर्भगवतः शिष्या इव रवेः कराः ।। २५
...साधुफेरू स्ववचोभिरिति स्वामिन् विधीयते श्रीश्रुतपंचम्या उद्यापनमितीरितं श्रुत्वा सप्रमोदः श्रीधर्मकीर्तिमुनिपाय तन्निमित्तं श्रीमूलाचार
For Private And Personal Use Only