________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भट्टारक संप्रदाय
Acharya Shri Kailassagarsuri Gyanmandir
२२६
लेखांक ५८८ - ( प्रवचनसार )
विक्रमादित्यराज्ये स्मितुर्दशपरे शते । नवषष्टया युते किंनु गोपाद्रौ देवपत्तने ॥ ३ अनेक भूभुक्पदपद्मलग्नस्तस्मिन्निवासी ननु पाररूपः । गारहारो भुवि कामिनीनां भूभुक्प्रसिद्धः श्रीवीरमेंद्रः ॥ ४ ... श्रीकाष्ठसंघे जगति प्रसिद्धे महगुणौधे त्रयमाथुरान्वये । सदा सदाचारविचारक्षे गणे सुरम्ये वरपुष्कराख्ये ॥ ८ मुनीश्वरो भून्नयसेनदेवः कृशाष्टकम यशसां निवासः । पट्टे तदीये मुनिरश्वसेन आसीत्सदा ब्रह्मणि दत्तचेताः ॥ ९ पट्टे तदीये शुभकर्मनिष्ठोप्यनंतकीर्तिर्गुणरत्नवार्धिः । मुनीश्वरो भूजिनशासनेंदुस्तत्पट्टधारी भुवि क्षेमकीर्तिः ॥ १० पट्टे तदीये ननु हेमकीर्तिस्तपःप्रभानिर्जितभानुभानुः । रत्नत्रयालंकृतधर्ममूर्तिर्यतीश्वरोभूज्जगति प्रसिद्धः ॥ ११ ... पारावारो हि लोके यो जनानिमिषसेवितः ।
देवकीर्तिमुनिः साक्षात् परं क्षारविवर्जितः || १३ व्याख्यायैव गुरुः साक्षात् पशुधर्मविनिर्गतः । पद्मकीर्तिमुनिर्भाति परं रागविवर्जितः ॥ १४ ... प्रतापचंद्रो हि मुनिप्रधानः स्वव्याख्यया रंजितसर्वलोकः । नियंत्रितात्मीयमनोविहंगो विवादिभूभृत्कुलिशो नितांतः ॥ १६ गुणरत्नैरकूपारो भवभ्रमणशंकितः ।
हेमचंद्रो यतिः साक्षात् परं ग्राहविवर्जितः ।। १७ पद्मकीर्तिमुनेः शिष्यो गुणरत्नमहोनिधिः । ब्रह्मचारी हरीराजः शीलव्रतविभूषितः ।। १९
लेखांक ५८९ - आराधनासारटीका
[ ५८८ -
हेमकीर्ति
( रायचंद्र शास्त्रमाला, बम्बई १९३५ )
अश्वसेनमुनीशोभूत् पारदृश्वा श्रुतांबुधेः । पूर्ण चंद्रायितं येन स्याद्वादविपुलांबरे ॥ १ श्रीमाथुरान्वयमभूदधिपूर्णचंद्रो
For Private And Personal Use Only