________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४ भट्टारक संप्रदाय
[५७९ - सुदि ८ वासरे पुनर्वसुनक्षत्रे श्रीअर्गलपुरदुर्गे श्रीपातिसाहिजलालदीनअकबरसाहिप्रवर्तमाने श्रीमत्काष्टासंघे माथुरगच्छे पुष्करगणे लोहाचार्यान्वये भ. श्रीमलयकीर्तिदेवाः तत्पट्टे भ. श्रीगुणभद्रसूरिदेवाः तत्सट्टे भ. श्रीभानुकीर्तिदेवाः तत्पट्टे भ. श्रीकुमारसेननामधेयास्तदानाये अग्रोतकान्वये भटानियाकोलवास्तव्यसाधुश्रीनंदन एतेषां मध्ये परमसुश्रावकसाधुश्रीटोडरेन जंबूस्वामिचरित्रं कारापितं ॥
( माणिकचन्द्र ग्रन्थमाला, बम्बई ) लेखांक ५८० - पट्टावली
माधवसेन श्रीमन्माधवसेनसाधुममहं ज्ञानप्रकाशोल्लसत्स्वात्मालोकनिलीयमात्मपरमानंदोर्मिसंवर्मिनम् । ध्यायामि स्फुरदुग्रकर्मनिगणोच्छेदाय विष्वग्भवावर्ते गुप्तिगृहे वसन्नहरहर्मुक्त्यै स्पृहावानिव ॥ २२
( भा. १ कि. ४ पृ. १०४ ) लेखांक ५८१ - पट्टावली
विजयसेन समजनि जनिताशः क्षिप्तदुष्कर्मपाशः कृतशुभगतिवास: प्रोद्गतात्मप्रकाश: । जयति विजयसेन: प्रास्तकंदर्पसेनः तदनु मनुजवंद्यः सर्वभावैरनिंद्यः ।। २३
[ उपर्युक्त ] लेखांक ५८२ - पट्टावली
नयसेन तत्पट्टपूर्वाचलचंडरश्मिर्मुनीश्वरोभून्नयसेननामा । तपो यदीयं जगतां त्रयेपि जेगीयते साधुजनैरजस्रम् ।। २५ यद्यस्ति शक्तिर्गुणवर्णनायां मुनीशितुः श्रीनयसेनसूरेः । तदा विहायान्यकथां समस्तां मासोपवासं परिवर्णयन्तु ।। २६
( उपर्युक्त)
For Private And Personal Use Only