________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ५७९] १३. काष्ठासंघ-माथुरगच्छ
२२३ पुष्करगणे भ. श्रीगुणकीर्तिदेवाः तत्पट्टे भ. श्रीयशःकीर्तिदेवाः तत्पट्टे भ. मलयकीर्तिदेवाः तत्पट्टे भ. श्रीगुणभद्रदेवाः तत्पट्टे भ. श्रीभानुकीर्तिस्तदन्वये अग्रोतकान्वये गोयलगोत्रे एतेषां मध्ये सा रूपचंदेन उत्तरपुराणाख्यं शालं लिखाप्य भ. श्रीभानुकीर्तये दत्तं निजज्ञानावर्णीकर्मक्षयनिमित्तं ॥ .
(म. प्रा. पृ. ७२३) लेखांक ५७७ - [ भविष्यदत्तचरित ]
कुमारसेन ___ संवत् १६१५ वर्षे फागुण सुदि सप्तमी बुधवासरे अकबरराज्ये प्रवर्तमाने श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे 'भ. श्रीगुणभद्रसूरिदेवाः तत्पट्टे भ. श्रीभानुकीर्तिदेवाः तत्सिष्य मंडलाचार्य श्रीकुमारसेनदेवा तदामाये अप्रोतकान्वये गोइलगोत्रे...।
(अ. ७ पृ. ५०) लेखांक ५७८ - जंबूस्वामिचरित-राजमल्ल
श्रीमति काष्ठासंपे माथुरगच्छेथ पुष्करे च गणे । लोहाचार्यप्रभृतौ समन्वये वर्तमानेथ ।। ६० तत्पट्टे परममलयकीर्तिदेवास्ततः परं चापि । श्रीगुणभद्रःसूरिभट्टारकसंज्ञकश्चाभूत् ।। ६१ तत्पट्टमुश्चमुदयादिमिवानु भानुः श्रीभानुकीर्तिरिह भाति हतांधकारः । उद्द्योतयन्निखिलसूक्ष्मपदार्थसार्थान भट्टारको भुवनपालकपनबंधुः ॥ ६२ तत्पट्टमब्धिमभिवर्धनहेतुरिन्दुः सौम्यः सदोदयमयो लसदंशुजालैः । ब्रह्मव्रताचरणनिर्जितमारसेनो भट्टारको विजयतेऽथ कुमारसेनः ॥ ६३
[ अध्याय १ ] लेखांक ५७९ - [जंबूस्वामिचरित-राजमल्ल ]
अथ संवत्सरेस्मिन् श्रीनृपविक्रमादित्यगताब्दसंवत् १६३२ वर्षे चैत्र
For Private And Personal Use Only