________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- ४७५] ११. बलात्कार गण- सूरत शाखा भूषणगुरुपरमाभीष्टभ्रात्रा गुर्जरदेशसिंहासन-भ.-श्रीलक्ष्मीचंद्रकाभिमतेन मालवदेश-भ.-श्रीसिंहनंदिप्रार्थनया यतिश्रीसिद्धांतसागरव्याख्याकृतिनिमित्तं नवनवतिमहावादिस्याद्वादलब्धविजयेन . तर्कव्याकरणछंदोलंकारसिद्धांतसाहित्यादिशास्त्रनिपुणमतिना प्राकृतव्याकरणाद्यनेकशास्त्रचंचुना सूरिश्रीश्रुतसागरेण विरचितायां यशस्तिलकचंद्रिकाभिधानायां यशोधरमहाराजचरितचम्पूमहाकाव्यटीकायां यशोधरमहाराजलक्ष्मीविनोदवर्णनं नाम तृतीयाश्वासचंद्रिका परिसमाप्ता ॥
(निर्णयसागर प्रेस, बम्बई १९१६) लेखांक ४७३ - सहस्रनाम टीका श्रीपद्मनंदिपरमात्मपरः पवित्री देवेंद्रकीर्तिरथ साधुजनाभिवंद्यः । विद्यादिनंदिवरसूरिरनल्मबोध: श्रीमल्लिभूषण इतोस्तु च मंगलं मे ॥ अदः पट्टे भट्टादिकमतघटाघट्टनपटुः सुधीलक्ष्मीचंद्रश्चरणचतुरोसौ विजयते ॥ आलंबनं सुविदुषां हृदयांबुजानां आनंदनं मुनिजनस्य विमुक्तिहेतोः । सट्टीकनं विविधशास्त्रविचारचारु चेतश्चमत्कृतिकृतं श्रुतसागरेण ॥
(हि. १५ पृ. २२२ ) लेखांक ४७४ - तत्त्वार्थवृत्ति ___...श्रीमद्देवेंद्रकीर्तिभट्टारकप्रशिष्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य विद्यानंदिदेवस्य संछर्दितमिध्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां श्लोकवार्तिकसर्वार्थसिद्धि - न्यायकुमुदचंद्रोदय - प्रमेयकमलमातंड - राजवार्तिक-प्रचंडाष्टसहस्री- प्रभृतिग्रंथसंदर्भनिर्भरावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां दशमोध्यायः ।।
( भारतीय ज्ञानपीठ, काशी १९४९) लेखांक ४७५ - शांतिनाथ बृहत्पूजा-शांतिदास
तद्विष्टरेतिविख्यातो विद्यानंदी महायतिः । तस्य शिष्यवरो योगी मल्लिभूषणः शीलवान् ॥ तस्यासने लक्ष्मीचंद्रो ख्यातकीर्तिदिगंतरे । अहीरदेशसर्वेपि मुल्हेरपुरपट्टके ।।
For Private And Personal Use Only