________________
विशेषावश्यकभाष्ये
[नि० ६४७णिवतति पदादिपज्जंततो जतो इत्यादि । 'णेवातिय पदं' [३३७०] इति सूत्रगाथाखण्डम् । तस्येदं भाष्यम्-नामिक आख्यातिक-औपसर्गिक-नेपातिक-मिश्रेतिपञ्चप्रकारपदसम्भवे निर्धार्योच्यते नैपातिकं यदिदं 'नमः' इति । तत्र निपतति पदादिपर्यन्तेष्विति निपातः । निपातादागतम् , निपातेन वा निर्वृत्तम् , निपातं(त) एव वा-स्वार्थिक एव प्रत्ययः 'ठ' ततो-नैपातिकं पदम् 'नमः' इति । 'स एव'इति स्वार्थिकप्रत्ययसूचनं निजार्थपरतया । 'नेपातिकम्' इति नामिकादिशेषपदव्यावृत्तिराख्याता भवति ॥३३८६॥
॥पदमिति द्वारं गतम् ॥ अथ पदार्थनिरूपणार्थमिदम्-- पूयस्थमिदं सा पुण सिरकरपादादिदव्वसंकोयो। . भावस्स य संकोयो मणसों सुद्धस्स विणिवेसो ॥३३८७।।
पूयत्थमिदं सा पुण इत्यादि । पूजार्थमिदं 'नमः' इति पदम्, यस्मात् 'णम प्रहत्वे' धातुः । “उणादयो बहुलम्" [३।३।१। पाणि०] इति 'असुन्' 'नमोऽहद्भवः' इति पूजार्थमादौ निपातः। सा पुनः पूजा कर-शिरः-पादादिद्रव्यसंकोचः-प्रता निमि(मोदावस्थानम् । भावसंकोचस्तु मनसो विशुद्धस्य नियोगः । सूत्रे चोक्तम् 'दव्य-भावसंकोयणपतत्थो' [३३७०] द्रव्यभावसकोचनाप्रधानः पदार्थः द्रव्यभावसंकोचनपदार्थः । पार्थिवादिराकृतिगणः [२।१।६०। वार्तिः पाणि०] इति समासः । तत्र भङ्गचतुष्टयम्-द्रव्यसकोच इत्येकः-यथा बोलकस्य, भावसंकोच इति [द्वितीयो यथाऽनुत्तरदेवस्य, द्रव्यसङ्कोचो भावसंकोचश्च यथा] साम्बस्य तृतीयः, न द्रव्यसंकोचो न भावसकोच इति नमस्काराभावाच्छून्योऽयं भङ्गः ॥३३८७॥
अत्र किं प्रधानमप्रधानं चेति गाथात्रितयम्एत्थं तु भावकरणं पधाणमेकंतियं ति तस्सेय । बझं सुद्धिणिमित्तं भावावेतं तु तं विफलं ॥३३८८॥ जं जुजतो वि तैयं ण तप्फलं लभति पालगादि व्व । तविरहिता लभंति य फलमिह जमणुत्तरादीया ॥३३८९॥
१पातिक नैपातिक पञ्च-प्रतौ। २ ति तानि का प्रतौ । ३ मिणं को हे त। १°सा को हे। ५ पालक को हे। ६ शम्ब हे, सई को। ७ व त को हे। ८ जुज' तु टीका प्रतौ। ९ भयं त।