________________
६६४
विशेषावश्यकभाष्ये [नि० ६४७अध णामं भावम्मि वि ते'णिच्छति तेण दव्व-ठवणा वि। भावस्सासण्णतरा हेतू सद्दो तु बज्झतरो ॥३३८१॥
दव्य-ठवणावज्जे उज्जुमुतो। ऋजुसूत्रो नाम-भावनिक्षेपाविच्छति व्या. पित्वात् , द्रव्य-स्थापने नेच्छति, स्थापना नामान्तर्गतेव, द्रव्यं भावैकदेश एवेति, तच्च तस्य न युज्यते । यस्मादुक्तं श्रुते-ऋजुसूत्रोऽपि द्रव्यमिच्छति, वर्तमानैकक्षणवृत्तित्वात् एकमेव वस्तु, द्वितीयादेः सञ्चयाभावात् ॥३३७८॥
इच्छन्तो य स दम् । यद्यसावृजुसूत्र इच्छति द्रव्यं स्वयमनाकारमपि भावहेतुत्वात् । एवं तर्हि तेन स्थापनाऽप्यभ्युपगन्तव्या भावहेतुत्वात् द्रव्यवत् । विशेषश्च स्थापनायाः साक(का)रत्वम् ।
अपि च, अथैवं बुद्धिः स्यात्-भावेऽपि भावावस्थायामपि नाम विद्यत एव न निवर्तते, तस्मात् तदिष्यते । एवं तर्हि भावे द्रव्यमपि, तदाकारोऽपि, तदविनाभाविप्रत्यासत्तेः सन्निहितौ, ततो द्रव्य-स्थापने अपि ऋजुसूत्रेणाभ्युपगम्ये, भावे सन्निहितत्वात् , नामवत् । विशेषहेतुश्च प्रत्यासन्नतरे द्रव्य-स्थापने 'नाम'शब्दस्यार्थाद् बाह्यतरत्वात् ॥३३७९-८१॥
अथ यदुक्तम्-स्थापनावर्जान् सङ्ग्रहो व्यवहारश्च इच्छत इति एकीयमतम् , तदू विचार्यो
संगहियो'ऽसंगहियो सम्बो वा गमो ठवणमिच्छे । • इच्छति जति संगहिओ तं णेच्छति संगहो कीस? ॥३३८२॥
संगहि० इत्यादि । इह तेषामाचार्याणां नैगमः सर्वनिक्षेपानिच्छतीत्यभ्युपगमः । स च द्विविधो देश-समग्रमाही नैगम इति । सङ्ग्रहोऽस्यास्तीति सङ्ग्रहिकःसङ्ग्रहपाक्षिक इत्यर्थः, तद्विपरीतो देशग्राही असङ्ग्रहिकः । सर्वोऽपि नैगमः इच्छति स्थापनाम् । तेषामाचार्याणां स्वाभ्युपगमेनैव सङ्ग्रहस्यापि स्थापना प्राप्ता, सर्वग्राहित्वात् , सर्वग्राहिनैगमवत् । अथ सर्वसङ्ग्राही नैगमो नैवेच्छति स्थापनामिति साध्यधर्मशून्यो दृष्टान्तः । एवं तर्हि प(पारिशेष्यासिद्ध्या देशमाही नैगमः स्थापनामिच्छतीति सिद्धम् , तथाऽप्यनिष्टापत्तिर्दृश्यते ॥३३८२॥
तो णेच्छइ को हे। २ य त। ३ होप्रदित्यतत्ये-प्रतौ। ४ 'हिउ है। ५ मेच्छे त।