________________
नि० ६४७]
निक्षेपद्वारम् । दित्यर्थः । अथवा 'नो'शब्दो मिश्रभावे आगममिश्रान्नोआगमतः । अत एव च सूत्रगाथाखण्डेऽभिहितम्-'भावोवयुत्तो जं कुज्ज सम्मदिठी तुगा० ३३७०] । नमस्कारज्ञाने भावे उपयुक्तः सम्यग्दृष्टिः यदेव किञ्चित् कुर्यात् तत्क्रियायुक्तः तच्चित्तः स एव भावनमस्कारः । तत्र नमस्कारज्ञानोपयुक्तः(क्तस्य) तामेव क्रियां कुर्वतस्तद्भावनयाऽसावेव भावनमस्कार आगमतः, ज्ञाननिष्पन्नत्वात् , शेषक्रियाः कुर्वन् नोआगमतेः तदेकदेशत्वादिति भावना ॥३३७६॥
अथैषां नामादिनिक्षेपाणां कस्य नयस्य को निक्षेपोऽभिमतः ? इति नयमतप्रदर्शनम्
भावं चिय सद्दणया सेसा इच्छंति सव्वणिक्खेवे । ठवणावज्जे संगह-ववहारा केयिदिच्छंति ॥३३७७॥
भावं चिय सदणया इत्यादि । शब्दनयाः शुद्धत्वात् त्रयोऽपि भावनिक्षेपमेवैकमिच्छन्ति, परमार्थफलत्वात् । शेषा अशुद्धनया नैगमादयः ऋजुसूत्रपर्यवसानाश्चत्वारः सन्निक्षेपानिच्छन्ति, नाम-स्थापना-द्रव्यात्मकत्वात् भावस्य सर्वजन्य मतत्वान्न पुनरभिधानम् ।।
केचिदाचार्योः व्याचक्षते-संग्रह-व्यवहारौ स्थापनावर्जान्निक्षेपानिच्छतः, स्थापनायाः नामनिक्षेपादनन्यत्वात्, असद्भावस्थापना वा सङ्केतवशात् तेन नाम्ना व्यपदिश्यते डिस्थवदिति ॥३३७७॥
दव्व-टवणावज्जे उज्जुमुतो तं ण जुज्जते जम्हा । इच्छति सुतम्मि भणितं सो दव्यं किंतु ण पुंधतं ॥३३७८॥ इच्छन्तो य स दव्वं तदणागारं निभावहेतु ति । णेच्छेज्ज कधं ठवणं सागारं भावहेतु ति ॥३३७९॥
णाम पि होज्ज सण्णा तन्वच्छ वा तदत्थपरिमुण्णं । __हेतु त्ति तदिच्छतो दव्ववणा कधं णेच्छे ॥३३८०॥
१ 'भावनमस्कार करोति' इति अध्याहार्यम् । अत्र द्रष्टव्या मलधारिहेम. वृ० पृ. ११२८, गाथा २८१६ । २ °वो त। ३ केइ ईको हे त । पुहुत्तं को। ५ ति जे,तु हे। ६ रो त । ७ तदत्यंतो त।