________________
अथ सामायिकस्य सूत्रस्पर्शिकनियुक्तौ नमस्कारविचारः । अथ सूत्रस्पर्शिकनियुक्तयवसर इति गाथा सम्बन्धाभिधायिनीइति' एसै उवग्घातोऽभिहितो सामाइयस्स तस्सेय । अधुणा मुत्तप्फासियणिज्जुत्ती सुत्तवक्खाणं ॥३३३०॥
इति एस उवग्घातो। 'इति' शब्द उपोद्घातपरिसमाप्तिद्योतकार्थे । कस्येति चेत् ? सामायिकस्य-इदानीमधुना सामायिकस्य सूत्रस्पर्शिकनियुक्तिः । किमुक्तं भवति -सूत्रव्याख्यानमित्यर्थः ॥३३३०॥
सूत्रस्य व्याख्यानमिति षष्ठ्या विग्रहे [सूत्रं] सूत्रा[नु]गमे ऽभिहितम् । तदर्था गाथामुत्तं सुत्ताणुगमें तं च णमोक्कारपुव्वयं जेणं । सो सव्वमुतखधन्भन्तरभूतो ति णिदिवो ॥३३३१॥
मुत्तं मुत्ताणुगमे । तच्च 'पञ्चनमस्कारपूर्वकम्' इत्युक्तं प्राक्, सर्वश्रुतस्कन्धाभ्यन्तरत्वात् पञ्चनमस्कारस्यादावुच्चारणं व्याख्यानं चेति तदवसरः। प्रमाणं चसूत्रव्याख्याने पञ्चनमस्कार आदी व्याख्येयः, सर्वसूत्रादित्वात् , सर्वसम्मतसूत्रादिवत् ॥३३३१॥
अत्र कश्चिदाह-सूत्रादित्वं नमस्कारस्यासिद्धम् । तत्प्रसाधनाय प्रमाणम्सूत्रस्यादिनमस्कारः, सूत्रादौ व्याख्यायमानत्वात् , उभयप्रसिद्धसूत्रादिपदवत् । तत्रासौ पुनरप्याह-मङ्गलं नन्यादि सूत्रादिर्न भवति, पृथक् श्रुतस्कन्धत्वात् , तत्र च सूत्रादौ व्याख्यायमानत्वं विपक्षेऽपि दृष्टमित्यनैकान्तिकः । तस्मात् सूत्रादिन भवति नमस्कारः । एवं तर्हि मङ्गलत्वादेवादौ व्याख्यास्यते । मङ्गलं च त्रिप्रकारम्-आदौ मध्येऽवसाने चेति । तत्रादिमङ्गलार्था नन्दी व्याख्याता। मध्यमङ्गलार्थस्तीर्थकरसामान्याभिधानविशेषतीर्थाधिपतिमहावीरतच्छिष्यगणधरवाचकवंशप्रवचनगुणोत्कीर्तननमस्कारसूचनो गाथा[प्र] पञ्च उक्तः । परिशेषादवसानमङ्गलार्थोऽयं पञ्चनमस्कार इति केषाञ्चिद् बुद्धिस्तदर्थमियं गाथा
तं चावसाणमंगलमण्णे मणति तं च सत्थस्स । ___ सव्वस्स भणितमन्ते इतमातीए कधं जुत्तं १ ॥३३३२॥
तं चावसाणमंगलमण्णे इत्यादि । तदयुक्तमिति ख्याप्यते आचार्येण, तेषां दुर्बुद्धिरेषा-अवसानं मङ्गलमित्यभ्युपगम्य स्वयं शास्त्रादौ प्रस्तूयमानत्वात् । स चैवं स्ववचनविरोधः, पूर्वापरार्थव्याघातात्मकत्वात् , माता मे वन्ध्येति वाक्यवत् ॥३३३२॥
1 इह को हे। २ सो त । ३ व को है। 'वं त । मो हे त । ५ 'रभूउ है ।