________________
विशेषावश्यकभाष्ये
[नि०६४३सतसाहस गंथा सहस्स पंच य दिवड्डेमेगं च । ठविता एगसिलोगे संखेवो एस णातव्यो ॥३३२५॥ जिण्णे भोयणमत्तेयो कविला पाणिण दया । वाहस्स[२१९-०]तीरविस्सासो ‘पंचाला थीसु मद्दवं ॥३३२६॥
सतसाहस्सं इत्यादि । जिण्णे भोयणमत्तेयो इत्यादि । आत्रेयेणायुर्वेदसंहिता शतसहस्रेण निबद्धा । तथा आन्वीक्षिकी विद्या कपिलेन । दण्डनीतिविद्या बृहस्पतिना। कामविद्या पञ्चालेन । अतिविस्तरः श्रोतुं ग्रहीतुं वा अशक्य इति सहस्रेण सहस्रेण सर्वैः स्वसंहिताः संक्षिप्ताः । सोऽपि विस्तर इति संक्षेपरुचिबुद्धयपेक्षया पञ्चभिः शतैः संक्षिप्ताः। तदप्यनिच्छतः एकैकेन श्लोकेन । ततोऽपि यदि संक्षिप्ततरं भूयादिति चिन्तासमनन्तरमेव चतुर्भिः ऋषिभिः एकैकश्लोकपादः स्वशास्त्रसंक्षेपायोक्तः । चतुर्णामप्येकः श्लोकः संवृत्तः सहैव कर्तृवचनेन, अन्यथा श्लोकपादोऽप्यन्यः। तद्यथा-'जीर्णे भोजनम्'इति-आयुर्वेदसंहितासंक्षेपः-आत्रेयः। 'एवमाह'इति सर्वेषां वाक्यशेषः । धर्मसंहितासंक्षेपः-'प्राणिनां दया' कपिल एवमाह । अर्थशास्त्रसंक्षेपः-'अविश्वासः सर्वत्र'इति बृहस्पतिराह । कामशास्त्रसंक्षेपः-'स्त्रीषु मादेवं कार्यम्'इति पश्चाल आह । एवमैदंयुगीनसाघवश्चतुर्दशपूर्वसंगृहीतसामायिकााराधकाः, संक्षेपानुष्ठायित्वात्, अभिप्रेतार्थाराधकस्वशास्त्रसंक्षेपार्थानुष्ठाय्यात्रय-कपिल- हस्पतिपश्चालवत् ॥३३२५-२६॥
सोतूण अणाउहि अणभीतो वजिऊण अणगं तु । अणवज्जतं उवगतो धम्मरुई णाम अणगारो ॥३३२७॥
सोतूण अणाउट्टि । आकुट्टनमाकुट्टिः-छेदनम्-हिंसेत्यर्थः । 'मण रण च(व)ण गतौ' गच्छति तासु तासु जीवयोनिष्विति अणं पापकर्म, वर्जनीयो वय॑ः, अणस्य पापस्य वर्ण्यः सर्वसावधविरतिः साधुः, पापेनासौ वय॑ते इति । धर्मरुचिस्तापसः श्रुत्वा एकदिवसानाकुट्टि परिमितकायविषयाम् अणस्य भीतः सर्वजीवविषयां सर्वकालिकी च अनाकुडि साधुभ्यः श्रुत्वा अणं वर्जयित्वा अणवर्जतामुपगतः, यथाऽसौ अपि अणेन पापेन वय॑ते तथा स्थितः अनगारः संवृत्त(त) इति । एवमाराधकाः साधवः अणवर्जानुष्ठायित्वाद्धमेरुचिवत् ॥३३२७॥
हस्सा को हे दी हा म। २ 'म । ३ 'लो को। ५ णा त । ५ बह'को। ६ पञ्चालो को । गाउदि जे । ८ जियाण को जे।