SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ नि० ७३५] नयानुयोगद्वारविचारः। बाह्योऽर्थ' आदेयः परिग्रहोतव्यः, अग्राह्योऽनादेय इति एष यत्नः । 'एव'शब्दोऽवधारणे-यतितव्यमेव-नालस्य कार्यम्-प्रमादस्त्याज्य इत्यर्थः । यति तव्यमेवेति य उपदेशः स ज्ञाननयो नाम । स च चतुर्विधः(घ)सामायिके सम्यक्त्व-श्रुतसामायिकद्वयान्तर्भावः । यतनं प्रयत्नः क्रियानयः चरित्रसामायिकं चरित्राचरित्रसामायिक च । 'सर्वेषाम्' इति मूलनयानां तच्छाखा-प्रशाखाभेदानाम् 'अपि' शब्दाद् मूलनयानां किमुत तद्भेदानाम् अथवा तद्भेदानां शुद्धानां वक्तव्यं श्रुत्वा किमुताऽशुद्धानां सर्वग्राहिणाम् , सामान्यमेव, विशेषा एव, उभयमेवानपेक्षम् , अवक्तव्यमेव वा, तत्संयोगभेदेन वा बहुविधा वक्तव्यता वचनगोचरता । अथवा वक्तव्यता नामादीनां कः कं साधुमिच्छतीत्यादिर्बहुविधा वक्तव्यता, तां निशम्य श्रुत्वा, श्रद्धाय च ज्ञात्वा जिनोपदेशेन तत् सर्वनयविशुद्धं वचनं सर्वनयसम्मतं यच्चरणगुणस्थितः साधुरिति एष क्रियानयो नाम, क्रियाप्रधानत्वात् । अन्वर्थपरिणतो षण्णामपिं नयोभयसम्मतः सर्वसाधुरिति । एकनयसमर्पितस्तद्विवक्षायामेव साधुः अन्यनयविवक्षयामसाधुरिति उभयनयपरिग्रहः परमार्थ इप्ति ॥४३२०-२७॥ इय परिसमापितमिदं सामाइयमत्थतो समासेणं । वित्थरतो केवलिणो पुव्वविओ वा पभासंति ॥४३२८॥ इय परिसमापितमिदं । 'इय' एवम्, 'परिसमापितम्'-परिसमाप्तिं नीतम् , 'इदम्'इति बुद्धिस्थं प्रत्यक्षमिव सामायिक निर्दिशति, 'अर्थतः' इति व्याख्यानतः न सूत्रतः, सूत्रं भगवद्भिर्गणधरैर्दृष्ट(ब्ध)मिति, 'समासेन' इति संक्षेपतः, विस्तरस्याशक्यत्वात् । किं सर्वस्यैव विस्तराशक्यत्वम् ! आहोस्वित् कस्यचिच्छक्तिरस्तीति ! तां प्रदर्शयन्ति-'विस्तरतः' 'केवलिनः' सर्वावरणक्षयोद्भूता(त)विमलस्वाभाविकप्रकाशाः प्रकर्षेण 'भाषन्ते' सर्वद्रव्यपर्यायानन्तगमसहितत्वात् पूर्वधराः स्वावरणक्षयोपशमनातप्रकृष्टश्रुताः 'प्रभाषन्ते' व्याख्यानयन्ति सर्वनयानुयोगद्वारसमवतारगम्भीरार्थप्रकाशनात् ॥४३२८॥ १ वाक्यादौ 'सच' इति निर्देशात् भत्र अन्तर्भावस्थाने 'भन्तर्भूत इति पदं समुचितम् ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy