________________
विशेषावश्यकभाष्ये
[ नि० ७२९
कृतो योगः कर्म, कर्मणि च द्वितीया विभक्तिः, अतः 'तम्' इत्यभिधेयः (ये) 'तस्य' इत्यभिधीयते, किमर्थमित्याह - प्रयोजनार्थं षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणा, अवयवलक्षणा वा योऽसौ योगस्त्रिकालविषयः तस्य सावद्यमंशमवयवं प्रतिक्रमामि, न शेषं वर्त्तमानमनागतं वा ॥४२८४-८५॥
८५४
'अविसिद्धं सावज्जं संबज्झावेन्ति केयि छट्टीए ।
तं न प्पयोयणाभावतो तथा गंथगुरुतातो ॥४२८६॥
अविसिहं सावज्जं । केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगं सम्बन्धयन्ति, तं ( तद्) न युज्यते, अविशिष्टस्य त्रिकालस्य प्रतिक्रमणप्रयोजनाभावात्, ग्रन्थगुरुत्वापत्तेश्च । अविशिष्टमपि सम्बन्ध्य पुनर्विशेषेऽवस्थापनीयस्तच्छन्द इति ग्रन्थगुरुता ||४२८६ ॥
पच्छित्तस्स पडिक्कमणतो य पायं च भूतविसयातो । ती पडिक्कमणातो पुणरुत्तादिप्पसंगातो ||४२८७॥
।
पच्छित्तस्स पडि० । यदि तत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितम् अतः प्रायश्चित्तमासेविते (ता)ऽतीतविषयमिति गतत्वादतीत प्रतिक्रमणमिति न वक्तव्यमिह पुनरुक्तत्वप्रसङ्गात् ॥४२८७ ॥
तुम्हा डिक्कमामिति तस्सऽवस्सं कमामि सदस्स । भव्वमिह कम्मणा तं च भूतसावज्जओ णऽण्णं ॥४२८८||
तभ्हा परिक्रमामि । तस्मादस्य 'प्रतिक्रमामि' इति शब्दस्य कर्मा [र्मणा ] भवि - तव्यमवश्यम्, भूतं सावधयोगं मुक्त्वा नान्यत् कर्म भवितुमर्हति तस्मात् 'तस्य' इत्यवयवलक्षणया षष्ठ्या संबन्धः ॥४२८८ ||
तिविधेणं ति ण जुत्तं पडिपतविधिणा समाहितं जेण । अत्यविकपणता गुणभावणत त्ति को दोसो ॥४२८९ ॥
तिविधेणं ति ण जुत्तं । यद्येवं पुनरुक्तादिमयं परिद्भि (हि) यते ततस्त्रिविधेनेति [न] वक्तव्यम् यस्मात् प्रतिपदमभिहितमेव मनसा वाचा कायेनेति । उच्यते, अर्थविकल्प संग्रहार्थं न पुनरुक्तम् अथवा गुणभावना पुनः पुनरभिधानाद् भवतीति न दोषः ॥४२८९॥
१ भवसि त । २ इदमत्र तुलनीयम् - " प्रायश्चित्तस्य च प्रायो भूतविषयत्वात्आसेवितावद्ययोगविषयत्वात्'- मलधा० ० पृ० १३३७-३८ गा० ३५६१ । ३ ° सामण्णतो जे । ४ तुम ।