________________
विशेषावश्यकभाष्ये
[निः ७२६पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । [२७२-०] खतो दंतो मुत्तो थिरव्वत जितिन्दियो उज्जू ॥४१३६।। असढो तुलासमाणो समितो तध साधुसंगइरतो य ।। गुणसंपतोववे तो जोग्गो सेसा अजोगा तु ॥४१३७॥ दारं।
आलोयणसुद्ध० इत्यादि । उत्तानार्थम् विनयानन्तरं कृतमङ्गलोपचारप्रशस्तक्षेत्रे प्रशस्तदिङ्मुखस्य प्रशस्ते काले पञ्चम्यादौ प्रशस्त नक्षत्रे मृगसि(शि)रः-पुण्यादौ सर्वाण्यप्रशस्तानि वर्जयित्वा गुणसम्पन्नस्य प्रियधर्मादिगुणसम्पत् । ४१२७-३७॥
अभिव्याहारो नामाष्टमो नयःणेयोऽभिव्याहारोऽभिन्चाहरणमहमस्स साधुस्स। इदमुदिसामि मुत्तत्योभयतो कालियसुतम्मि ॥४१३८॥ __णेयोऽभिव्वाहारो इत्यादि । ज्ञेयोऽभिव्याहारः, नेतव्यो वा नीतिविशेषेण तो(ने)यः अभिव्याहारः । अभ(भि)व्याहरणं वचनैः आचार्य-शिष्ययोः । तत्राचार्य वचनमभिव्याहारः-अहम् अस्य साधोः इदमङ्गम् , अध्ययनम् , उद्देशं वा 'उद्दिसामि' वाचयामीत्यर्थः । आप्तोपदेशपारम्पर्यख्यापनार्थ क्षमाश्रमणानां हस्तेन-न स्वोत्प्रेक्षया -सूत्रतोऽर्थतः तदुभयतो वा अस्मिन् कालिकश्रुते ॥४१३८॥
अथोत्काले दृष्टिवादे कथमिति ? तदुच्यते-- दैव्वगुणपज्जवेहि य भूतावातम्मि गुरुसमादिहे। बेतुहिट्टमितं मे इच्छामऽणुसासणं से से ॥४१३९॥ दारं ।
दव्य-गुण-पज्जवेहि य । दृष्टिवादे भूता(त)वादे इदम् ‘उदिसामि' सूत्रतोऽर्थतः द्रव्य-गुण-पर्यायैः अनन्तगम-पर्यायैरिति । एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः-ब्रवीति शिष्यः-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति । एष(व)मभित्र्याहारद्वारमुत्कृष्टसंनीतिविशेषनयेन गतम् ॥४१३९॥
अथ करणस्य निरूपितलक्षणस्य विधानकरणद्वारेण प्रश्नः-करणं कइविहम् ? इति. प्रश्नस्य निर्वचनम् -
करणं तब्वावारो गुरु-सीसाणं चतुविधं तं च । उद्देसो वायणता तथा समुद्देसणमणुण्णं ॥४१४०॥
करणं तत्वावारो इत्यादि । गुरु-शिष्याणां सामायिकक्रियाव्यापारणं करणम् । तच्चतुर्विधम्-उद्देशः, वाचना, समुद्देशः, अनुज्ञा चेति । गुरोर्व्यापारः उद्दिष्टमिदं १गु को है त । २ °ववी है । ३ गुणदव्वप' है। १ सौसो को हे त । ५ 'गुन्ना को हेत।