________________
८०२
विशेषावश्यकभाष्ये
[नि० ७२४व्येषु तृतीयसमये औदारिकसंघातं कृत्वा चतुर्थसमये संघात-परिशाटारम्भी त्रिसमयाधिकानि त्रयस्त्रिंशत् सागरोपमाण्यन्तरम् । एवमेव द्विविधं जघन्यमुस्कृष्टं च शाटस्यान्तरं वक्ष्यामीति ॥४०५७||
खुशागभवग्गहणं जहण्णमुक्कोसयं च तेतीसं । तं सागरोवमाई संपुण्णा पुन्चकोडी य ॥४०५८॥
खुड्डागभवग्गहणं इत्यादि । अतीतभवचरमसमये सर्वशाट कृत्वा इहभवं क्षुल्लकभवग्रहणमनुपाल्य पर्यन्ते सर्वशाट इति क्षुल्लकभवग्रहणं शाटस्यौदारिक विषयस्य जघन्यमन्तरम् । उत्कृष्टं मनुष्य औदारिकसर्वशाटं कृत्वा देवलोके त्रयस्त्रिंशत् सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसंघातं कृत्वा पूर्वकोटिं पर्यन्ते औदारिकसर्वशाट करोतीति त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोट्यधिकानि दृष्टमन्तरम् । अथ वैक्रियशरीरस्य सङ्घातोभयशाटानां कालः अन्तराणि च भण्यन्ते । तत्र वैक्रियसङ्घातस्य कालो जधन्यः एकः समयः ॥४०५८॥
यतःवेउब्वियसंघातो समयो सो पुण विउव्वणादीये ।
ओरालियाणमधवा देवादीणाऽऽदिगहणम्मि ॥४०५९॥ - वेउब्वियसंघातो इत्यादि । औदारिकशरीरिणा (णां) वैक्रियलब्धिमतां विकुर्वणारम्भे समय एको वैक्रियसङ्घाती, ततः परं सङ्घात-शाटौ अथवा देव-नारकाणामादिशरीरग्रहणसमय एको वैक्रियसङ्घाते ॥४०५९॥
उक्कोसो समयदुर्ग जो समय विउन्धि'उ मओ बितिए । समए सुरेमु वच्चति णिबिग्गहतो तयं तस्स ॥४०६०॥
उक्कोसो समयदुगं । उत्कृष्टतः सङ्घातनकालो वैक्रियस्य समयद्वयम् , स पुनरौदारिको वैक्रियलब्धिर्विकुर्वणारम्भो(म्मे) वैक्रियसंघातं समयेन कृत्वा आयुष्कक्षयाद् मृतः अविग्रहया गत्या देवेषूपपद्यमानोऽनन्तर एव समये देवायुष्कस्य प्रथमे वैक्रिय सङ्घातयतीति समयद्वयं वैक्रियसंघातस्य ॥४०६०॥
उभय जहणं समओ सो पुण दुसमय वि[२६७-०]उचित मयस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥४०६१॥
१°ए को हे त । २ य हे । ३ व्वितो जे । ४ परम् भतराई इति विभागः । भतराई-मायरोपमाणि