________________
नि० ७२४] सामायिक करणद्वारम्
८०१ समयैरूनं आयुष्कं पालयित्वा परभवमविग्रहेण गच्छतः परभवप्रथमसमय एव संघातयतः शरीरम् , स विज्ञेयः संघातान्तरकालो जघन्य इति ॥४०५२-५३॥ उक्कोसं तेत्तीसं समयाधियपुवकोडिअधियाई । सो सागरोवमाइं अविग्गहेणेहै संघातं ॥४०५४॥ कातूण पुन्वकोडिं धरितुं सुरजेट्टमायुगं तत्तो । भोत्तूण इथं ततिए समए संघातयंतस्स ॥४०५५॥ उभयंतरं जहण्णं समयो णिम्बिग्गहेण संघाते । परमं सतिसमयाई तेतीसं उदधिणामाई ॥४०५६॥
उकोसं तेत्तीस इत्यादि । उत्कृष्टं संघातात् सङ्घातस्यान्तरं भण्यतेयोऽतीतभवादविग्रहेणाऽऽगत्य इहभवप्रथमसमये पूर्वकोट्यायुः सन् संघातं कृत्वा समयोनां पूर्वकोटिमायुष्कमनुपाल्य सर्वार्थसिद्धोत्कृष्टस्थिति प्राप्य त्रयस्त्रिंशत् सागरोपमाणि स्थित्वा मनुष्यभवं विग्रहेण गच्छतः परभवप्रथमसमय एव संघातयतः शरीरम् , स विज्ञेयः संघातान्तरकालो जघन्य इति । मनुष्यभवं विग्रहेण प्राप्य द्वौ समयो अतिवाह्य तृतीयसमये पुनरप्यौदारिकशरीरग्रहणात् संघातं कुर्वतः मौदारिकसंघातान्तरसमयाधिकपूर्वकोटयतिरिक्तानि त्रयस्त्रिंशत् सागरोपमाणीति सिद्धम् , यस्मात् पूर्वकोटिः संघातसमयेन [ऊ]ना आसीत् , विग्रहसमयौ च द्वौ तयोरेकेन पूर्वकोटिः पूरिता, द्वितीयोऽतिरिक्तः पूर्वकोटिसमय इति समयाधिका पूर्वकोटिः । अथौदारिकस्यैवोभयान्तरमुच्यते जघन्यमुत्कृष्टं च-तत्र उभयान्तरम्-इहभवायुष्कचरमसमये संघात-परिशाटौ कृत्वा अविग्रहेण परभवप्रथमसमये शरीरसंघातं कृत्वा द्वितीयसमये सङ्घात-परिशाटौ आरभते इति सङ्घातसमय एकः उभयान्तरं जातः । परममन्तरम्-उत्कृष्टम् इत्यर्थः-त्रिसमयाधिकानि त्रयस्त्रिंशत् सागरोपमाणि ।।४०५४-५६॥
एतस्य भावनाअणुभवितुं देवादिसु तेतीसमिहागतस्स ततियम्मि । समए संघातयतो दुविधं साडंतरं वोच्छं ॥४०५७॥
अणुभवितुं देवादिसु इत्यादि । औदारिकस्योभयान्तरं मृग्यते इति वैक्रियमुस्कृष्टमुदाहरणम् , इह औदारिकशरीरी आयुष्कचरमसमये संघातपरिशाटौ कृत्वा अविग्रहेण सर्वार्थसिद्धे उपपन्नस्त्रयस्त्रिंशत् सागरोपमाणि स्थित्वा विग्रहेण मनु
, 'डिस है त । २ °णेव त । ३ तुलनीवमेतत्-"पुनश्च एकसमयन्यूनां पूर्वकोटि धृत्वा"-कोटया. व. मु. पृ० ९२७ गा. ४०७१ ।