________________
fio ७२३] प्रयोजन-फलद्वारे ।
७९१ सुभपरिणामणिमित्तं इत्यादि । योऽसौ निःशीले शुभपरिणामो मिथ्यादृष्टेर्जातः तस्माच्छुभपरिणामाच्छुभं फलं भवेद् यद्यसौ शुभः परिणामः स्यात् , न पुनरसौ शुभस्तद्विपरीतालम्बनत्वात् उन्मत्तकपरिणामवत् । सदसदविसेसणातो भवहेतुजतिच्छियोवलंभातो । णाणफलाभावातो मिच्छद्दिद्विस्स अण्णाणं[गा०११४ पृ० २९] ॥४०१६॥
[२६४-०]णणु मुणिवेसच्छण्णे णिस्सीले वि मुणिबुद्धिए देतो। पावति मुणिदाणफलं तध किंण्ण कुलिंगेदाता वि ॥४०१७॥
___णणु मुणिवेसच्छण्णे इत्यादि । एवं तर्हि कुलिङ्गिनि निःशीलेऽपि मिथ्यादृष्टिर्मुनिबुद्धया दानं प्रयच्छन् मुनिदानलाभ प्राप्स्यन्ति(ति),शुभपरिणामत्वात् , निःशीलमुनिवेषच्छन्नप्रदातृसम्यग्दृष्टिवत् ॥४०१७॥ ___ आचार्य आहजं थाणं मुणिलिंग गुणाण सुण्णं पि तेहि पडिम व्व । पुज्ज थाणमतीय विण कुलिंग सव्वधा जुत्तं ॥४०१८॥
जं थाणं मुणि लिंगं इत्यादि । यस्माद् मुनिलिङ्गं मुनिवेषः, तेषां मुनिगुणानाम् , यदा तदाऽस्मिन् मुनिलिङ्गे तेषां गुणानां दृष्टत्वात् , अतस्तैर्गुणैः' शून्यमपि मुनिलिङ्गं सदा पूज्यमेव, तद्गुणस्थानत्वात्, अर्हत्प्रतिमावत् । अर्हदाकारस्य तैर्गुणैः सम्बन्धित्वात् तद्गुणाधारः प्रतिमा, कुलिङ्गं तु गुणस्थानबुद्धगऽपि परिगृहीतं न गुणस्थानम् , तैर्गुणैरत्यन्तविमुक्तत्वात् , अग्निरिव शील(त)गुणस्य । अतः पूर्वप्रमाणैः कुलिङ्गधर्मिणि शुभपरिणामत्वादित्यसिद्धो हेतुः ॥४०१८॥
णणु केवलं कुलिंगे वि होतु तं भावलिंगतो ण ततो । मुणिलिंगमंगभावं जाति जतो तेण तं पुज्जं ॥४०१९॥
णणु केवलं कुलिङ्गे वीत्यादि । कुलिङ्गमपि मुनिगुणस्थानं कदाचित् , तद्गुणणसम्बन्धित्वात् केवलज्ञानोत्पादिकुलिङ्गवत् । उच्यते', 'होतु तं भावलिंगतो, ण ततो' तत् केवलज्ञानं कुलिङ्गसहिते जीवे भवतु, केन निवार्यते ! तत् पुनः प्रतिपन्नभावमुनिलिङ्गात् तस्मिन् जीवे तद् भवति न कुलिङ्गात् । अतः कुलिङ्ग-द्रव्यलिङ्गमकारणम्, मुनिलिङ्गं तु द्रव्यभावात्मकं उभयमङ्गभाव(वं) केवलस्य यातीति । तस्माद् मुनिलिङ्गं द्रव्यात्मकमपि पूज्यम् , मुनिगुणस्थानत्वात् , शुभपरिणामहेतुत्वात् , ज्ञानादित्रितयवत् ॥४०१९॥
लिंगि त २ ण को हे त । ३ °ए तप न को। १ स्थानम्-आश्रयः इति योज्यम् । ५ 'उच्यते' इत्यत भारभ्य 'ण ततो' पर्यन्तं वाक्यं द्विः लिखितं लिपिकारेण सटीक त प्रती।