________________
नि०.६७६] -
वस्तुद्वारम् ।
છેલ
एवं ज्ञान दर्शनविचारानन्तरं प्रसङ्गमपहाय प्रकृतमेवोच्यते । यदुक्तम् 'इथं बोन्दि चरत्ताणं तत्थ गंतूण सिज्झति' [ गा० ३७७९] ति । तद् मृष्यन्नाह - गंतूण सिज्झति त्तिय भणिते सुतम्मि कधमकम्मस्स । आगमणं ति भणति सकम्मगमणे व को हेतू || ३७५६ ॥
गंतून सिज्झति त्तिय इत्यादि । शे (शै) लेश्यनन्तरं सर्वकर्मक्षयं कृत्वा शरीरपरित्यागात् तत्रैव निष्क्रियोऽवतिष्ठताम् अकर्मत्वात्, तदाकाशदेशवत् । तस्मान्न कर्मक्षयं कृत्वा सिध्यति, किं तर्हि ? सकर्मैव तत्र लोकान्ते यात्वा कर्मक्षयं कृत्वा सेत्स्यतीत्यभिप्रायः । आचार्य आह-सकर्मणोऽपि तस्य गमनं नैव प्राप्नोति, अविद्यमानगमनकारणत्वात्,' सिद्धस्येव । कदाचित् भूयात् कर्मैव तस्य गमनकारणमस्तीत्यसिद्धत्वं हेतोः, तच्च न ॥३७५६ ॥
यतः
कम्मं पोग्गलमइयं णिज्जीवं तस्स णयणसामत्थे । को हेतू पडवण्णो जति वि सभावो इध स एव ॥ ३७५७॥
कम्मं पोग्गलमयं । न जीवं कर्म कचिन्नेष्यति, अचेतनत्वात्, पाषाणवत् । अथाऽचेतनस्यापि तस्य कर्मणो नयनसामर्थ्य प्रतिपद्यते भवता 'स्वभावः' इति, इहापि चेतनस्य जीवस्य स्वयं गमने स्वभाव एव हेतुर्भविष्यति कर्मवदिति । यदि चेयमाशङ्का - निष्क्रियोऽसौ जीवः, अरूपत्वात्, आकाशवत् ॥३७५७॥
तन्निवर्त्तनार्थम् उच्यते—
सक्किरियं किमरूवं भणति भुवि चेतणं व क्रिमरुवं । ज से विसेसधम्मो चेतण्णं तध मता किरिया || ३७५८ ॥
सक्किरियं किमरूवं इत्यादि । एवं तर्ह्यनयोपपत्या अरूपत्वादाकाशवत् अचेतनत्वमपि विरुद्धधर्मः स्यात् - अचेतनो जीवः, अरूपत्वात्, आकाश-धर्माधर्मादिवत् । ततः स्वजीवत्वहानिरेवेति विशेषधर्मस्तस्य स्वाभाविकश्चेतकत्वं नाम विनोपपच्या प्रतिपन्नं तथा विनोपपया स्वाभाविकमेव सक्रियत्वं प्रतिपत्तव्यम् । न हि स्वभावः पर्यनुयो कुं शक्यः । हे जीव ! किं चेतनस्त्वम् ! हे आकाश ! किम् अमूर्त्तत्वम् (स्त्वम्) किञ्च, असर्वगतः ? इत्यादि । अग्निर्वा किमुष्णः इति सर्वत्र तुल्योपालम्भत्वात् । अथ
१ ' अत्र प्रस्तावात् समायातं ज्ञान दर्शन विचाररूपम् अनन्तरं प्रसङ्गम् भपहाय प्रस्तुतमेष उच्यते इति भाव: । २ 'तस्य गमनकारण कर्मैव अस्ति' इति भूयात् इति भन्वयः । ३ व को हे त । ४ सुविचे ० त ।