________________
वि० ६७६] बस्तुद्वारम् ।
७४७ तेन भावेन प्रथम उच्यते, तस्य परिणामस्य प्रस्थापकत्वात् । स च केवलयोः ज्ञान-दर्शनयोरुपयोगः केवलोपयोग इति उभयपरिग्रहात् प्रथमप्रवृत्तेः केवलिनो युगपदुपयोगता सिद्धेति ॥३७२८॥
यद्येवं तत इदम्उवयोगग्गहणातो इध केवलणाण-दसणग्गहणं । जति तदणत्थंतरतो' हवेज्ज मुत्तम्मि को दोसो ? ॥३७२९॥
उवयोगग्गहणातो इत्यादि । उपयोगग्रहणाच्चेदुभयोर्ग्रहणं भवेत् , एवं तर्हि तयोरनन्तरत्वं प्राप्तम्-ज्ञानं च दर्शनं चैकमेव वा स्थि(ऽस्ति इ)ति ॥३७२९॥
इतर आह-भवतु, को दोषः ? दोषकुतूहलं चेद् ब्रूमःतग्गहणे किमिह फलं गणु तदणत्यंतरोवदेसत्थं । तष वत्थुविसेसत्थं सतसो मुत्ताई समयम्मि ॥३७३०॥
तग्गहणे किमिह फलं । यद्यनर्थान्तरं ज्ञानं दर्शनं च, नन्वयं सूत्रदोषःस्थाने स्थाने 'केवलज्ञानं केवलदर्शनं च' इति भेदेन किमिति भण्यते ? तस्या(स्यो)भयस्य ग्रहणे किं फलम् ? पुनरुक्तत्वादफलमेव ग्रहणं प्राप्नोति । ततोऽसौ युगपद्वादी प्रत्याह-नैव निष्फलं तयोरभिधानम्-पर्यायान्तरेण तदनन्तरोपदेशार्थत्वात् "सिद्धा. ऽकाइय-गोसंजता." [गा० ३७३१]आधुपदेशवत् । तथा च वस्तुविशेषज्ञापनावंप्रकाराणि सूत्राणि शतशः सिद्धान्ते प्रसिद्धानि । 'शतशः' इति बहुत्वाऽऽख्यापनार्थः'बहुशः' इत्यर्थः ॥३७३०॥
तानि चेादीनिसिद्धाऽकाइय-जोसंजतादिपज्जायतो स एवेगो । 'मुत्तेसु विसेसिज्जति जघेह तह सव्ववत्थूणि ॥३७३१॥
सिद्धाऽकाइय-णोसंजता० इत्यादि । भव्यत्वपर्यायविगमात् सिद्धः, स एव कायवत्त्वपर्यायविगमाद् अकायिकः, असंयतत्व-संयतत्वविगमाच्च स एव नोसंयतः इत्येक एवार्थोऽनेकेन विशेषेणापुनरुक्तेन चोद्यते सफलश्चति । तथा ज्ञान-दर्शनपर्यायाभ्यामेक एवोपयोगः आख्यायत इति को दोषः सामान्याकारपरिच्छेदाद् विशेषाकारपरिच्छेदाच्चेति ? तस्मादेकमेवेदं वस्तु ज्ञानं दर्शनं चेति ॥३७३१॥
यच्चापि त्वया अत्यन्तभेदवादिना ज्ञापकमुपदयते प्रज्ञप्ति-मज्ञापनादिषु ग्रन्थेषु अन्यत्वाऽऽख्यापकं वचनम् "केवली णं भंते ! जं समयं जाणइणो तं समय पासई" । तदपि च न, यत एव तद(द) व्याख्यात(नम्
१ 'इदम्'पर्यायः 'इम'शब्दोऽपि वर्तते ।