SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ नि० ६७६] वस्तुद्वारम् । ७३७ भव्वाभव्व[२४३-द्वि०]विसेसो चेतण्णस्स व सभावतो ण मतो । अण्णो वि जैती दीसति सभावभेतो ण जीवाणं ॥३६९६।। भव्वाभव्वविसेसो। भव्याभव्यत्वयोः स्वभावकृतो जातिभेदो नास्ति, जीवधर्मत्वात् , तद्गतचैतन्यधर्मवत् । अन्योऽपि च भव्याभव्यत्वे मुक्त्वा जीवधर्मः क्वचिद् जातिभिन्नो नास्तीत्यनैकान्तिकाभावं जीवधर्मस्य दर्शयति ॥३६९६॥ ___अत्राभिधीयतेदवातित्ते तुल्ले जीव-णभाणं सभावतो भेतो। जीवाजीवातिगतो जघ तध भव्वेतरविसेसो ॥३६९७॥ दवातित्ते तुल्ले । इह जीवस्य नभसश्च स्वभावभेदोऽस्ति चेतनत्वमचेतनत्वम् , आदिग्रहणात् सक्रियत्वमक्रियत्वं चेत्यादि । अथ च सत्व-व्यत्वादिधर्मेंस्तुल्यता। अतः सामान्यरूपेणैवानैकान्तिकता । जातिभेदेऽपि जीवाकाशादीनां सामान्यधर्मता द्रव्यादिरूपा दृष्टेति कृत्वा जीवत्वे समाने भव्याभव्यकृतो जातिभेदो भविष्यतीति ।। ॥३६९७॥ एवं पि भव्वभावो जीवत्तं पि व सभावजातीतो। पावति णिच्चो तम्मि य तद्वत्थे पत्थि णेव्वाणं ॥३६९८॥ एवं पि भव्वभावो इत्यादि। एवं तर्हि जीवस्य भव्यत्वं नापैष्यति, स्वाभाविकत्वात् । ततश्च नित्ये भव्यत्वे निर्वाणाभावः प्रसज्यत इति ॥३६९८॥ जध घडपुव्वाभावोऽणातिसभावो वि सणिधणो एवं । जति भव्वत्ताभावो हवेज्ज किरियाय को दोसो ॥३६९९॥ जध घडपुव्वाभावो इत्यादि । इह जीवस्य भव्यत्वं कथञ्चिदपयास्यति, अनादत्वे सति विशिष्टक्रियायोगित्वात् , घटप्रागभाववत् ॥३६९९॥ अणुदाहरणमभावो खरसंग पिव मती ण तं जम्हा। भावो च्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ॥३७००॥ __ अणुदाहरणमभावो इत्यादि । प्रागभावो ह्यभावत्वादेवोदाहरणमयुक्तम् , क्रियायोगित्वाभावात् , खरशृङ्गवत् । आह-न प्रागभावोऽभावः, किं तर्हि ? भाव एव, कुम्भानुत्पत्तिमात्रविशिष्टत्वात् । एवं तर्हि भव्यत्वविगमात् सर्वभव्योच्छेदः प्राप्तः, अपचीयमानत्वात् , धान्यकोष्ठागारवत् । तन्न, प्रतिप्रमाणसद्भावात् ॥३७००॥ ततो गाथा१ जो को त । २ नियओ को।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy