________________
नि० ६७०] वस्तुद्वारम् ।
७१७ हेरण्णिए करिसए इत्यादि ॥३६१६॥
अथ पारिणामिका(की) बुद्धिःपरिणामो पुव्वावरसुदीहकालावलोअणं मणसा । एगग्गस्स ततो जा संजायति जा य कज्जाणं ॥३६१७॥
परिणामो पुव्यावर० इत्यादि । परितः समन्तात् , नमनं परिणामःसुदीर्घकालात् पूर्वाऽपरावलोकनम्-मनसा चिन्तनम् , तत एकाग्रस्य-एकालम्बनस्याभिनिविष्टचेतसो-यो जायते परिणामः, कायपरिणामाद्वा(मो वा)। परिणामः प्रयोजनमस्या इति पारिणामिकी ॥३६१७॥
तस्याः लक्षणसूत्रम्[२३८-प्र०]अणुमाणहेतुदिटुंतसाधिया वयविर्वकपरिणामा । हितणिस्से सफलवती बुद्धी परिणामिआ णाम ॥६७०॥३६१८॥ इध लिंगियमणुमाणं सपरप्पच्चायगं मतं गाणं ।। हेतु ति कारगो जो कुंभातीणं व पिण्डादी ॥३६१९॥
अणुमाणहेतुर्दिष्टुंतसाधिया इत्यादि । इध लिंगियमणुमाणं इत्यादि । त्रिरूपाल्लिङ्गादर्थदर्शनमनुमानमिति । अन्ये "निर्दिष्टं हेतु[मनुमानम्" [ ] इति व्याचक्षते । तत्रानुमीयते ऽनेनेति हेतुरेवानुमानम् । किं पुनर्हेतुः पृथगुच्यते ? आहाचार्यः-इह लैङ्गिकमनुमानम् , ज्ञापको हेतुः परप्रत्यायनार्थत्वात् । स्व-परप्रत्यायकं तु ज्ञान[मनुमान]मुच्यते, हेतुरिति कारक एव, हेतुः मृत्पिण्ड इव कुम्भादीनाम् , बीजमिवाङ्कुरस्य । अयं हेतोरनुमानस्य च भेदः ॥३६१८-१९।।
अथवा अन्यो भेदःहोज्जत्थलक्खणं वाऽणुमाणमिह वयणलक्खणं हेतू । अणुमाणहेतुभेतो सपरप्पच्चायणकतो वा ॥३६२०॥
होज्जत्थलक्खणं वाऽणुमाणमित्यादि । इह आत्मप्रत्यायनार्थम् अर्थात्मक-, मनुमानं धूमादग्निज्ञानवत् । परप्रत्यायनार्थं तु वचनात्मकं पक्ष-हेतु-दृष्टान्तवचनं प्ररूपितम्। तत्र त्रिलक्षणो हेतुः-पक्षधर्मः, सपक्षेऽस्ति, विपक्षा(क्षाद ) व्यावृत्त इति अनुमानस्य हेतोश्च भेदः । त्रिलक्षणत्वेषु उभयः(योः) स्व-परप्रत्यायनकृतो भेदः ।
१ जा दीहकालपुवावरचिंतणओ भवे सयं म° को मु. वृ०पृ० ८५३ गा० ३६३७ । एषा ३६१७] गाथा हा. म. न दृश्यते मुद्रिता । २ विवागपं दी हाम। ३ स्सेअस. को दी हाम। ४ अत्र तुलनीयमेतत् - "इह लैजिक स्व-परप्रत्यायकं ज्ञानम् अनुमान मतम्"-कोट्या० . मु. पृ० ८५६॥ ५ णो को।