________________
६८४
विशेषावश्यकभाष्ये
[नि० ६५९
हेतुरुपाध्यायाः, विनयात्मकत्वात् , विनयमूलत्वात् दर्शनादिवत् । तथा मोक्षहेतुः साधवः, तक्रियायां सहायत्वात् , दर्शनादिवत् । सर्वेषु च पञ्चस्वपि साधनेषु धनसार्थवाहो दृष्टान्तः, निर्वाणपुरगमनार्थोपनयनात् ॥३४७४-७५॥
___ अथ क्रमेण विचारः क्रियतेमग्गो च्चिय सिवहेतू जुत्तो तदेतवो कधं जुत्ता ।। तदधीणतणतोऽधव कार[२२८-द्वि०]णकज्जोवयारातो ॥३४७६॥
मग्गो च्चिय इत्यादि। आह-दर्शनादित्रयं दृष्टान्तो मोक्षस्य मार्गः, न मार्गहेतुः, तस्मात् साधनधर्मविकलता दृष्टान्तस्य । यश्च मार्गः स एव शिवहेतुयुक्तो न तद्धतव इति न मोक्षहेतवोऽहंदादयः, मार्गहेतुत्वात् , चैत्यायतनकरणसाधुसम्पर्क-पुस्तक-प्रासुकभिक्षादिवत् । उच्यते, तदधीनत्वात् कारणे कार्योपचारात् तदुपकारित्वात् चैत्यायतनकरणाद्यपि मोक्षहेतुरेवेति न साध्यधर्मविकलो दृष्टान्तः । धर्मस्वरूपविपरीतसाधनो वा [न] विरुद्धः । मोक्षहेतव एवार्हदादयः, पारम्पर्येणोपकारित्वात् दर्शन-ज्ञानवत् , मार्गहेतुत्वाद्वा चैत्यायतनादिवत् ॥३४७६॥
आह-- मग्गोवकारिणो जति पुज्जा गिहिणो वि तो तदुवकारी । तस्साधणदाणातो सव्वं पुज्ज परंपरता ॥३४७७॥
मग्गोवकारिणो जति इत्यादि । एवं तीनैकान्तिकत्वं हेतोः-गृहिणो मोक्षहेतवो न भवन्ति, अथ च तत्रापि मार्गोपकारित्वं दृष्टमिति । मार्गोपकारित्वं च गृहिणां तत्साधनप्रदानात् । तथा च सर्वमपि त्रैलोक्यं पारम्पर्येण मोक्षमार्गोपकारि इति सर्वस्यापि मोक्षहेतुत्वे संसारकारणस्यापीत्यनिष्टापादनम् ॥३४७७॥ - अत्रोच्यतेजं पच्चासण्णतरं कारणमेगंतियं च णाणाति । मग्गो तहातारो सयं च मग्गो त्ति तो पुज्जा ॥३४७८॥
जं पच्चासण्णतरं इत्यादि । इह हि कार्य-कारणसम्बन्धे प्रत्यासन्नतरमेव कारणं भवति नातिविप्रकृष्टमिति लोकप्रसिद्धः प्रत्यासन्नतरत्वादेकान्तिकत्वाच्च ज्ञानादीनि मोक्षमार्गः, तेषां च ज्ञानादीनां दातार उपदेष्टारः स्वयं च, ज्ञानादिवदिति ॥३४७८॥
१ जुत्तो जे। ३ 'इ को है। ई त । ३ ते को हे त ।