________________
विशेषावश्यकभाष्ये
नि० ६५८अनन्तपर्यायत्वात् । एषा एकपदव्यभिचाराद् भजना सामान्यविशेषप्ररूपितत्वात् चूतद्माभिधानवत् । यथा चूतो नियमाद् द्रुमस्ततश्चावधारणमेवम्-'द्रुम एव चूतः' इति । द्रुमस्त्वनवधारितः-चूतो वा स्यादचूतो वा खदिरादिः ॥३४५९॥ __ एवं तर्हि तृतीया प्ररूपणा अवतरति प्रश्नो नामतो जति सव्वो जीवो ण णमोक्कारो ततो मता पुच्छा । सो होज किंविसिट्ठो को वा जीवो णमोक्कारो ॥३४६०॥ दारं।
तो जति सव्वो इत्यादि । तत एवं भजनां प्राप्य जीवस्य नमस्काराऽनमस्कारयोर्व्यापित्वाद् व्यभिचारे युज्यते प्रश्नः-किंविशिष्टो जीवो नमस्कारः ? किंविशिष्टचानमस्कारः ? इति । अस्याः प्रश्नप्ररूपणायाः प्रतिव्याकरणं चतुर्थप्ररूपणा भवति-दायना, दर्शना, दापना वा। 'दय दान-गति-रक्षणेषु' गत्यर्थत्वात् ज्ञानार्थः इति ण्यन्तस्य दायना । 'दृशिर् प्रेक्षणे' वा, तस्यापि ण्यन्तस्यैव दर्शना प्ररूपणेत्यर्थः, 'डुदाञ् दाने' वा तस्य [ण्यन्तस्य] दापना बुद्धिदानप्रचोदना-बुद्धिं ददतिं प्रयोजयति या सा दापना ॥३४६०॥
अध दायणा णमोकारपरिणतो जो तो णमोक्कारो ॥दारं । णिज्जवणाए सो च्चिय जो सो जी[२२७-द्वि०]वो णमोकारो॥३४६१॥.
दारं ।
अध दायणा णमोक्कारपरिणतो इत्यादि । नमस्कारपरिणतो जीवो नम इत्युच्यते । नमस्कारादनन्यभावपरिणतो जीवः अनन्य इत्युच्यते । अस्या दापनाया इयं निर्यापणा-निश्चयगमननिष्ठा-एष एव नमःपर्यायपरिणतो जीवो नमः, नम एव पर्यायोऽपि जीव[:], पर्याय-पर्यायिणोरभेदप्रदर्शन निर्यापणा ॥३४६१॥
दायण-णिज्जवणाणं को भेतो दायणा तदत्थस्स । वक्खाणं णिज्जवणा पच्चभासो णिगमणं ति ॥३४६२॥
दायण-णिज्जवणाणं को भेतो इत्यादि । एक वस्तु दापना-निर्यापणे, एकार्थाभिधायित्वात् इन्द्र-शक्रवत् । उच्यते, दापना प्रश्नार्थव्याख्यानम् , निर्यापणा तस्यैव हेतुपरामर्शात् प्रत्याभ्यासो निगमनं तच्छुद्धयुक्तिः । प्ररूपणेति अवयवसांगत्यख्यापनम् । ततश्चैकार्थाभिधायित्वमसिद्धो हेतुरिति-'नान्यैव(न्ये एव) दापना-निर्यापने' ॥३४६२॥
सं चायं सोपपत्तिकः प्रत्याभ्यासःतो हे। २ वणयाए त । ३ 'यणा' त ।