________________
नि० ६५८ ]
प्ररूपणाद्वारम् ।
षट्समाभेदाभ्यां नियतकालस्य प्ररूपणा, तद्विशिष्टस्य च तत्प्रतिभागस्यावस्थितरूपस्य च सर्वदा अनवसर्पिण्युत्सर्पिणीरूपस्य लोकेऽस्मिन् सम्भवः । तत्र बहुभेदे काले ‘कास्ति नमस्कारः’? ‘क वा नास्ति' ? सूत्रानुसारेण मार्गणा सत्पदप्ररूपणा ॥३४५५॥ अथवा सर्वमपि—
मति - सुतणाणं णवधा गंदीए जध परूवितं पुखं । तध चेअ णमोक्कारो सो वि सुतब्भंतरो जम्हा ||३४५६ ||
मति-तणाणं णवधा इत्यतिदेशगाथा लाघवार्थमुक्ता । अथवा षट्पदा नवपदा वा प्ररूपणा बहुषु स्थानान्तरेषु प्रसिद्धा ||३४५६ ॥
इयमन्याऽपि प्रदेशान्तरे पञ्चविधा प्ररूपणेति प्रख्यापयन्नाह - आरोणाय भयणा पुच्छण तह दायणा य णिज्जवणा । "ऐसा वा पंचविधा परूवणाऽऽरोवणा तत्थ ||३४५७॥
आरोवणा इत्यादि ॥ ३४५७॥
तत्र आरोपणा
किं जीवो होज्ज णमो ? णमो व जीवो ? तिजं परोप्परतो । अज्झारोवणमेसो पज्जणुयोगो मताऽऽरूवणा || ३४५८ || दारं ||
૬૮૩
किं जीवो होज्ज इत्यादि । किं जीव एव नमस्कारो भवेत् ? आहोश्वित् नमस्कार एव जीवः ? इत्येवं परस्परावधारणादध्यारोप आरोपणा - पर्यनुयोग इत्यर्थः ॥३४५८॥
तस्य पर्यनुयोगस्य प्रतिवचनं प्रतिनिर्देशो भजना -
जीवो णमोऽणमो वा णमो तु नियमेण जीव इति भयणा । जघ चूतो होति दुमो दुमो तु चूतो अचूतो वा ॥ ३४५९ ॥
जीवो णमोऽणमो वा इत्यादि । जीव एव नम इति उत्तरपदावधारणम् अजीवाद् व्यवच्छिद्य जीव एव नमोऽवधार्यते । जीवस्त्वनवधारितः नमो वा स्यादनमो वा,
१ "अथ 'च'शब्दाक्षिप्तां प्ररूपणाम् अभिधित्सुराह नियुक्तिकारः" इति निर्दिश्य श्रीकोट्याचार्यः स्ववृत्तौ (१०८२५) इमां गाथां निर्युतिगतां मन्यते । प्रस्तुत वृत्तिकारः कोट्टाय न तथा मन्यते । २ यणा जे । ३ पुच्छा को हा हे दी । ४ दाव म । ५ नमुक्कारनमुक्कारे, मोआइजुए व नवहा वा ॥ दी हा म ।
८६