________________
कर्णकुतूहलम्
राजा पुनरण्याह-वत्स ! नेदानी तवावसरो गमनस्य । कुमारः-पितः न हि मया भवतः परित्यागः क्रियते किन्तु स्वकीयं प्रारब्धं विलोकयितुमेव
कीदृशमिति । जनकः प्रभुरिव जग [ १५A ] तः सेव्यो ध्येयश्च यः सदा पूज्यः ।
यदि नहि सेवे त्वाहं कथय पितः का गति यात् ॥२॥ ततोऽवश्यमेवाज्ञां देहि गच्छेति राजन् ! इदानीमेवागमिष्यामि । राजा-यद्यवं तर्हि गम्यतां पुनरागमनं च ते भूयात् ।
पुनः कुमार एवं पितृवचः श्रुत्वा ढक्काघोषः क्रियतां सनह्यतामिति स्वापं विधाय पुनरुत्थितः । कृत्वावश्यकं स्नात्वा च दानं कृतवान् , ततः सन्नद्धोऽभूत् । सर्वे सन्नद्धा अभवन् । ततोऽन्तःपुरे जगामाञ्जलिं कृत्वा मातृणामने स्थितोऽभवत् मातर आशिषं ददुश्चिरायुस्त्वं भूया इति । पुत्र ! किमर्थं गम्यते कुत्र च । तव गेहे सर्वमस्ति । किं कार्य वर्त ते वदेत्युत्तत्त्वा साश्रु स्थिता ऊचुः ।
मा कुरु जन्म विधातर्जन्मनि कृते वियोगमपि [१५B] मा देहि । देहि मानुष्यं मा कुरु दुःखमिदं वनतोऽप्यधिकम् ॥३॥
गद्गद्वाचो जाता वक्तु किमपि न समर्थाः स्युस्ताः ।
लिखिता इव किं चित्रे, मग्नाः किं दुःखवारिनिधौ ।।४।। कुमारः-मा कुरु दुःखं मातः किं याता नो मिलन्ति मे तर्कः ।
'अश्र कलाः किल मुञ्चन्नोवाचान्यत्कुमारः सः ॥५॥ तत ऊचुः-पुत्र ! यदि गम्यत एव तर्हि सभार्य एव गम्यताम । कुमारः-यदाज्ञापयन्तु मातरः।
तथैवाकरोत् सः । प्रणम्याङ्घ्रिस्पर्श कृत्वा व्यचलत् । ततो दुदुभिवनिरभूत् । तदैव द्वारमगात् । कुमारो भृत्येन अश्व आनीतस्तमारुरोह च ।
हयं तमारुह्य चलन्नृपात्मजः सखायमुच्चैःश्रवसो मरुच्चलम् । हरियथाऽसौ शुशुभे शुभाननश्चलद्दगन्तैश्च निरीक्षितो जनैः ॥६॥ [१६A] चलनयं किञ्चिदुदग्चितस्मितः शनैश्शनैर्वाचमुवाच सस्पृहम् । सेवा च राज्ञः सकलैर्विघेया ततः प्रजानां परिपालनं च ॥७॥