________________
कर्णकुतूहलम्
मुखं मुखस्योपरि संनिधाय निपीड्य वक्षः किल वक्षसा तु । सुखं समाजग्मतुरेकचित्तौ यदद्वयानन्दमयं वदन्ति ॥३४॥ एकीभूती तत्सुखे दम्पती तौ पीत्वा पीत्वा सीधु बिम्बाधरोत्थम् । गाढालिङ्ग कोमलाङ्गषु कृत्वा काम पूर्णानन्दलाभं प्रयाती ॥३५॥
इति वदनसरोजौ कान्तिकान्तौ मृगाक्षौ विलसितमधिकं तौ प्राप्य केलीगृहान्तः ॥ परमसुख-नितान्त-प्राप्तिपूर्णाभिलाषी
रतिपतिकमनीयौ प्रापतुः प्रीतिलक्ष्मीम ॥३६।। इति श्रीमद्भट्टसदाशिवप्रीतये भोलानाथस्य कृतौ कर्णकुतूहले संभो [ १४A ] गकुतूहलं जातम् ।२।।
अथातः स्वापो विधीयतामिति महाराजस्येच्छा जाता ॥ ततः कस्याश्चिद्गीर्वाणभाषाभिज्ञाया सख्या अस्मार्षीत् । मा तत्रागत्याशिषं दत्त्वा ह्यतिष्ठत, पुनः स्थिता सती पपूर्वामेकामाख्यायिकामाह ।
श्रीमहाराज ! पूर्वदिशि कर्णपुरपत्तनं, तत्र परमधार्मिको विजयकीर्तिनामा राजाऽभूत् । तस्य पञ्च पुत्रा आसन् । उदारकीर्तिधर्मकीर्ति यकीर्तिर्देशकीतिराहवकीर्तिरिति सर्व एव स्वधर्मनिरताः शस्त्रास्त्रशास्त्रविशारदाः। एकदा राजाने नाम नाट्यमभत्तत्र ते कुमारा आगत्य स्थितास्तद्ददृशुः यथा
विलसितं नयनाञ्चलचारुतागतिविशेषतया ललितं वपुः ।
वदनचन्द्रचलभृकुटीध [१४B] नुहरति कस्य न हीदमहो मनः ।।१।।
एवं पुनः सर्वे गीतादि [कं ] निशम्य प्रणम्य च राजानं स्वस्वमन्दिरं जग्मुः । पाहवकीर्तिः कनिष्ठस्तत्रैव स्थितः । राजा अवलोक्य आह, आहवकीर्ते ! त्वया कथं न. गतम् ? । कुमारोऽब्जलिं बद्ध्वा सविनयमाह-महाराज ! मम देशान्तरं द्रष्टुमिच्छाऽस्ति । '
राजा कंचित्कालं स्वगतं विचार्य आह-पुत्र ! तव गेहे सर्व वर्तते किमर्थ तद्देशान्तरं जिगमिषा । *
कुमारः-महाराज ! किंचिन्मे कार्य नास्ति दिदृशेव, अत आज्ञप्तव्यं गन्तव्यमिति ।
* देशान्तरनिगमिषेति साधुपाठः।