________________
कर्णकुतूहलम्
विशालनेत्रानुचरैः परावृतः स वीज्यमानश्चलचामरैर्मुहुः । कुमारनामा शुशुभे नृपात्मजो वियत् पतद्गङ्गमरैर्यथामरः ।।८।। सितातपत्रं न यशः सुधांशुस्तं राजपुत्रं प्रसभं सिषेवे । उपार्जितं पूर्वमनेन पुण्यं जनेन तद्रक्षति सर्वतो हि ॥६॥ स रत्नचामीकरकुण्डलोल्लसत्कुपोलदेशच्छुरितांशुराशिः । व्यरोचि राजन्यकुमारभास्वान् मणिप्रभाभिर्दिवसेश्वरो वा ॥१०॥ शिरोमणिभू पयतीव विश्वं. रविर्भवेत् किं हृदि मे वितर्कः । कथं नु चक्षुःकमलानि लोके फुल्लन्ति दृष्ट्वा सततं जनानाम ॥११॥ [१६B] मुक्ताहारः किं नु वक्षःस्थलस्थस्लाराकारो भाति शोभैकशाली । गङ्गापातो नाकलोकादुपेतो यात्रासौख्यं भावि भयो विधत्ते ॥१२॥ एवं स राजन्यकुमारवीरः कुमारशोभामगमत् सशक्तिः । अनेकरत्नाभरणात्तशोभः स पद्मपाणिहरिरेव साक्षात् ॥१३॥ सभारउष्ट्रश्चलदोष्ठवक्त्रः सरोषमेकं करिणं निरीक्ष्य । सयनपुंसा नितरां निरुद्धो भयेन मार्गे किल निष्पपात ॥१४॥ नितान्तभारेण निपीडितोऽपि तत्रापि रूढा वनिता हि काचित् । पुनश्च पश्चात्कशयापि ताडितो मार्गावरुद्वोऽश्वतरः पपात ॥१५॥ काचिच्चलन्ती चपलायताक्षी तदीयलावण्यमथो विलोक्य । जगाम तृप्तिं न जगाम तावन् मुमोह निश्वासततीरवाह ॥१३॥ काचिन्निता [१७A] न्तं तमनङ्गबाणै गञ्चलैर्वीक्ष्य मनोभिरामम् । मुमोह बाला कलकण्ठनादैर्जगौ हतास्मीति ध्रुवं हतास्मि ॥१७॥
एवं स आवकेतुः प्रत्यहं चलति स्म । ततो धर्मपुरं नाम नगरं प्राप। तदुपकण्ठं अवततार । ततो नगरदर्शनार्थ जना जग्मुः ।
द्वारदेशधृवहेमकुम्भकान् पत्रपुष्पफललाजमण्डितान् । दिव्यवामनयनाद्यलंकृतान् पश्यति स्म च गृहाम् जनः सितान् ॥१८॥ अप्सरोभिरभितः सुखगीतं गीयते स्म नितरां अतिसारम् । श्रयते च किल तत्र जनौधैः स्वर्ग एव किमयं समवादि ॥१॥