________________
२
दशकण्ठवधम् रामोदमोदमानजनमानसा, उद्ग्रीवनागरवर्गावलोकिता, चरणपल्लनद्वयसी, परिष्कृतपरिपन्मणिकुट्टिमा, अदृष्टपूर्वा, उन्मिपत्प्रभाजालमासला आयामिनी कबुरा रत्नपतिरिव पुष्पवृष्टिरा च मुहूर्तचतुर्भागाद् पिहायसः पपात ॥१६॥
तदन्विति । करम्बिता मिश्रिता । लोलम्बा भ्रमरा । प्रसमरो विसृत्वर । चरणपल्लवद्वयसी । प्रमाणो द्वयसच्-डीप् । कुट्टिमोऽत्री निबद्धा भू। उन्मिषदि त्यादिविशेषणत्रय रत्नपड्क्तौ पुष्पवृष्टौ सगमनीयम् । आ च इति पृथक्पदम् । विहायस आकाशात् ॥१६४॥
तत्कालमिह परस्परपरामर्शसधृष्टकृष्णाजिना, यज्ञोपवीतिनी, लोलाक्षमालावलया, कमण्डलुवारिणी, पिशगजटाजूटा, प्रसरदीप्तिवितानतारतम्येन काचन सवितरन्ती, काचन चित्रभानयन्ती, काचिदिन्दवन्ती, काचित्तारकायन्ती, काचन पुनरुडूयमाना यदृच्छयोपस्थिता दिव्या मुनिपरम्परा यथान्यायमुपवेशिता अभिमतरसा साधी दाशरथिगनीमेव मुहुर्मुहुरन्योन्य श्लाघमानापतस्थे ॥१६॥
तत्कालेति । अक्षो गुलिका । सवितरन्ती सवितारमिवाचरन्ती । चित्रभानवन्ती चित्रभानुर्विभावसुस्तमिवाचरन्ती। इन्दव ती इन्दुमिवाचरन्ती । तारकाय ती तारकामिवाचरन्ती । सवित्रादिशब्दाद् आचारक्किबन्तात् शतरि डीपि नुमि च सवितरन्तीत्यादि । उडूयमानेति उडु लघुतारकमिव आचरतीति क्यडि शानचि च रूपम् । यदृच्छया स्वारसिक्या इन्छया ॥१६५॥
विदन् द्विजाग्र्यो हि मुनित्वमीयात्
तद् बाहुजन्मा जनकत्वमीयात् । वणिक् तुलाधारसमत्वमीया
जनश्च शूद्रोऽपि च मुक्तिमीयात् ॥१६६॥