________________
दशकण्ठबधम्
द्विषन्त इति । द्विषन्त अमित्रा । द्विष अप्रीतौ । 'द्विपोऽमित्रे' (पा सू० ३।२।१३१ ) इति शतृ । रज गुणेषु मध्यम पासुच । श्रवस्तुनि प्रतिषिद्ध पदार्थे ॥१२४॥
८२
ज्वलतीन जरा देहे वहतीव स्पृहा हृदि । मनो विलुठतीवान्तमुदिता करुणापि नो ॥ १२५ ॥
ज्वलतीति । ज्वलति त्वरते। वहति एधते । विलुठति प्रक्रमते । मुदिता करुणापि वृत्ति । नोदेतीति तात्पर्यम् । 'मैत्री करुणा मुदितो- पेक्षारणा सुख दुस पुण्यापुण्यविषयाणा भावनातश्चित्तप्रसादनम् ' ( यो० द० १।३३ ) इति योगसूत्रम् ॥। १२५ ।।
सुलभो दुर्जनाश्लेषो दुर्लभः सज्जनाश्रयः । अहकारकरातोद्य' नृत्यते ह्यभ्यसूयया ॥ १२६ ॥
सुलभ इति । अहकारकरे श्रतोद्य वादित्र यस्मिन् कर्मणि । नृत्य इति भावे लट् ॥१२६||
अनुरक्ताङ्गनालोललोचनालोकरञ्जितम् । मानसीकतु विदुषापि न शक्यते ॥ १२७॥
I
अनुरक्त ेति । वैषयिको रागो दुष्परिहर इति तात्पर्यम् ॥१२७॥ परोपकारकारिया परार्तिपरितप्तया ।
स्वात्मशीतलया बुद्धया बुद्धो विद्वस्यते परम् ॥ १२८॥
I
परोपकारेति । बुद्ध इति 'मतिबुद्धिपूजार्थेभ्यश्च' ( पा० सू० ३।२।१८८ ) इति वर्तमाने । विद्वानिवाचरतीति विद्वस्यते । क्यड् ॥१२८||
1
भूयो भूयोऽपि भूयासो दुराशापाशसदिताः । दोषगुल्म सारङ्गा विशीर्णा जन्मजङ्गले ॥ १२६ ॥
भूय इति । भूय इति पुनरर्थेऽव्ययम् । जङ्गल काननम् ||१२६|