________________
द्वितीयो गुच्छक असत्येति । असत्यम् अचिरस्थायित्वाद् विद्युद्विलाससदृशमिति भाव । अचिरात् सद्य । विप्रलम्भद वियोगजनकम् ।।६।।
॥ इति यौवनगर्दा ॥
सविकारा हृद्यगन्धा सरसोल्लासभूमिका ।
मदिरा मदिराक्षी च केवल व्यक्तितः पृथक् ॥१०॥ सरिकारेति । मदिरा प्रसिद्धा । मदिर पक्षिविशेष , तद्वद् अक्षिणी यस्या सा मदिराक्षी । मीनाक्षीवद् व्युत्पाद्यते । एषा द्वयी, केवल व्यक्तित व्यक्त गुणविशेषाश्रयमूर्ते । आकारादिति यावत् । पृथक् पृथग्भूता । मादनगुणेन तु एकैवेति तात्पर्यम् ।।६०॥
परिष्कृतानेकरागैर्वल्लकीव स्वरोद्गमैः ।
कॉस्कान्न चित्रयत्येषा तरुणान् हरिणानिव ॥११॥ परिष्कृतेति । रागोऽनुराग , गीतक च । स्वर सलेशभाषणाभिव्यक्त सप्तसख्यागश्च । चित्रवत् आश्चर्यवत् करोतीति चित्रयति । मोहयतीति भाव ॥६॥
किरातेनेन कामेन वागुरा इव योषितः ।
कुरङ्गानिव समुग्धानात्मसात्कतु मातताः ॥१२॥ किरातेनेति । वागुरा मृगबन्धनी-इत्यमर । आत्मसात् स्वाधी नान् ॥३२॥
ललनाविपुलालाने मनोमत्तमतगजः ।
रतिशृङ्खलया बद्धो मुहुर्माद्यन् विघूर्णते ॥१३॥ ललनेति । विघूर्णते कर्तव्याकर्तव्य न पर्यालोचयतीत्यर्थ ।।१३।।
कायपल्वलमत्स्याना स्वान्तकमचारिणाम् । पुसा दुर्वासनारज्जुर्योषा बडिशपिण्डिका ॥४॥