________________
दशकण्ठवधम् मोहयन्तीति । श्रयतीति श्री सौभाग्यसपत् । माघोक्त्याऽखिललोककान्तेति यावत् ॥३२॥
लक्ष्मीविशङ्कटोल्लासकल्लोलानलमाकुलान् ।
जडौघान् विकृतान् धत्ते वर्षास्विर तरङ्गिणी ॥३३॥ लक्ष्मीरिति । विशङ्कट पृथु वृहत् - इत्यमर । जडौघान् - वारिवेगान्, जडवृन्दानि च। ओघो वेगे जलस्य च । वृन्दे परम्पराया च द्रुतनृत्योपदेशयो-इति मेदिनी ॥३३॥
इय श्रीः पदमेकत्र नो निबध्नाति चञ्चला ।
दग्धेवानियताचारचक्रमा व्यतिराजते ॥३४॥ इयमिति । उपमेयपक्षे- अनियताचारेषु शास्त्रविहिताचरणशून्येषु, उपमानपक्षे-अनियताचार स्खलितन्यास यथा तथा, चक्रमो यस्या सा। व्यतिराजते इति- 'कर्तरि कर्मव्यतिहारे' (पा० सू० १।३।१४) इत्यात्मनेपदमिष्यते ॥३४॥
गुणागुणानपश्यन्ती श्रीरेषा पार्श्वशायिनम् ।
राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते ॥३५॥ गुणागुणेति । प्रायेण राजानोऽविवेकिनो भवन्ति । उक्त च- आश्रयन्ति समीपस्थ राजानो वनिता लता -इति ॥३५॥
तावच्छीतमृदुस्पर्शो लोकः स्वेषु परेषु वा ।
वात्ययेव हिम यापल्लदम्या न परुषीभवेत् ॥३६॥ तापदिति । वात्यया वातसमूहेन । 'पाशादिभ्यो य' (पा सू ४।२।४६) इति य ॥३॥
प्राज्ञाः कृतज्ञाः सख्यज्ञाः पेशलाः सरला अपि । पासुमुष्टय व मणयो लक्ष्म्या हि मलिनान्तराः ॥३७॥