________________
द्वितीयो गुच्छक तरलत्वाद् असदिव शून्यकल्पमिव दृश्यते अनुभूयते । कष्ट मृगतृष्णाम्भसा मरीचिवारिणा मृगा इव भोगाभिलाषेण विमोहिता वयम् ॥२८॥
नहि केनापि विक्रीता विक्रीता इव यन्त्रिताः ।
अहो ! सर्वे वय मूढा जानाना अपि शाम्बरीम् ॥२६॥ नहीति । श वृणोतीति शबरो दैत्यविशेष , तत्सबन्धिनी शाम्बरीम्, मायाम् । उक्तस्यैव प्रपञ्च ॥२६॥
एव विमृशतो बाढं दुरन्तेषस्थिरेषु मे ।
भावेष्वरतिरुत्पन्ना पथिकस्य मरुष्विव ॥३०॥ एवमिति । दुरन्तेषु दुष्परिणामेषु । अरति वैरस्यम् । उक्त च पातञ्जले-'परिणामतापसस्कारदु खैर्गुणवृत्तिविरोधाच्च दु खमेव सर्व विवेकिन' (यो० द० २।१५) इति ॥३०॥
तदिद भगवन् । ब हि किमिद परिणश्यति । किमिदं जायते भूयः किमिद परिवध ते ॥३१॥
॥ इति प्रथमः परितापः ॥ तदीति । हे भगवन् ! त्रिकालज्ञ । तदिद प्रत्यक्षमुपनत ब्रूहि आख्याहि । किमिद दृश्य सत् परिणश्यति अगोचरता प्राप्नोति । सतो नाशासभवात् । किमिद भूय जायते प्रादुर्भवति । परिणष्ट कथमिव जायेत । किमिद पुन परिवर्धते । परिणष्टस्य पुनरुत्पत्त्यसभवे तद्वर्धनानौचित्यात् । यदि च दृश्यमसत् तर्हि किं परिणश्येत् । स्वरूपेणासतो असत्त्वप्रतिपादन वन्ध्यासूनुध्वसवदनुप पन्नम् । एव च जननवर्धने अपि । यदि यद् दृश्यते तदन्यन् नश्यति-इत्यादि प्रतिपाद्यत तदा सबन्धाभावेन शके व दुष्यति ।।३१।।
॥ इति प्रथम परिताप ॥ इदानी परितापमेव प्रपञ्चयति सप्तदशभि प्रघट्टकै -
मोहयन्ती मनोवृत्ति खण्डयन्ती गुणावलिम् । प्रयच्छन्ती दुःखजालं श्रीरिय कि गवेष्यते ॥३२॥