________________
द्वितीयो गुच्छक अयि ! रघुधुरधर !! महायशप्रसूतस्य तवैष व्याहारो वाढमुपपद्यते । यदह दशरात्रेण क्रतुना यियक्षमाणो रक्षोभयक्षुब्धोऽधिज्यधन्वान रामभद्रमेव रक्षितार मन्यानोऽर्थित्वेन त्या प्राप्तोऽस्मि ॥१८॥
अयीति । वाढमुपपद्यते प्रकाम सगच्छते । दशरात्रेण क्रतुना सोमयाग विशेषेण ॥१८॥
पुत्रस्य तादृशं दौर्मनस्य रणेऽपाटन च विभावयन् नननेति गर्भितेन वाकोवाक्येन गमननिषेधमेव समर्थयन्नपि पार्थियो महर्षिभ्र - भगभुजगभीतो वसिष्ठबोधितः सलक्ष्मण रामभद्रमाजूहवत ॥१६॥
पुत्रस्येति । वाकोवाक्येन उक्तिप्रत्युक्तिप्रस्तावेन ॥१६॥
मोऽपि च प्ररूढमानसव्यथाविषण्णः शनकैरुपेत्य पुरस्तात् पितर परस्तात् तपोधामनी वसिष्ठनिश्वामित्त्री ब्रह्मनिष्ठ वामदेव च प्रणम्य तेन मूर्धन्याघ्रातः समात्सल्यमालिङ्गितस्ताभ्या तेन च प्रयुक्ताशीरवन्या परिजनाम्तीर्णे ऽशुके न्यविक्षत । तदनु क्रमेण तैरेवमवादि ॥२०॥
सोऽपीति । सोऽपि रामभद्र ।तै दशरथवसिष्ठविश्वामित्रवामदेवै ॥२०॥ पुत्र ! प्राप्तविवेकोऽसि कल्याणाना च केतनम् ।
जडवज्जीर्णया मत्या मोहायात्मा न दीयताम् ॥२१॥ पुत्रेति । 'पुन्नाम्नो नरकाद् यस्मात् पितर त्रायते सुत । तस्मात् पुत्र इति प्रोक्त स्वयमेव स्वयभुवा ॥ इति निरुक्ति । जइवद् अविवेकिवत् । जीर्णया शिथिलया । मोहन मोह । मुह वैचित्त्ये-घन । आत्मा जीव ॥२॥
राजपुत्र ! महाबाहो ! शूरस्त्व विजितास्त्वया । दुरुच्छेदा दुरारम्भा अपीमे विषयारयः ॥२२॥ राजपुत्रेति । विषया एव अरय ॥२२॥