________________
६०
दशकण्ठवधम्
इति दीर्घ । विश्वस्य मित्र निरुपाधिप्रेमगोचरतया प्रेयान् । 'आत्मानमेव प्रियमुपासीत' इति श्रुति । 'विश्वत्रयेण यो मैत्री कर्तुमिच्छति धर्मत । विश्वामित्र स -' इति स्मृतिश्च । व्यज्ञपि न्यवेदि || १४ ||
सम
सोऽपि श्रवणसमकालमेव सिहासनादुत्थाय सामात्यः वसिष्ठ - नामदेवाभ्या पदातिरेन सरितपद पद्यमानः पिशङ्गजटाजूट ससध्याभ्रमिव शैलकूटम्, उल्लसद्यज्ञोपनीत सवारिप्रपातवेणिकमिव शिखरिणम्, अपरभुवनोपादानकारणशेषभाण्डकमिव कमण्डलु दधान, सुकृतसुधामबुराभ्या वाड्मनसाभ्या वन्दारूननुगृह्वान महर्षिमालुलोके ॥ १५॥
सोऽपीति । पिशङ्गजटाजूट पिङ्गलसटाबन्धम् । पिङ्गपिशङ्गौ कद्र पिङ्गलौ इति, व्रतिनस्तु जटा सटा इति चामर । अतएन ससध्याभ्रमिव शैलकूटम् । उल्लसद्यज्ञोपवीत धृतयज्ञसूत्रम् । अतएव सवारिप्रपातवेणिकमिव शिखरिणम् । अपरभुवनस्य भुवनान्तरस्य, यत् उपादानकारणशेष निर्माणावशेषद्रव्य, तस्य भाण्डकमिव कमण्डलु दधानम् । सुकृतसुधामधुराभ्या पुण्यपीयूषसोदर्याभ्याम् । वाक् च मनश्च वाङ्मनसे । 'चतुर' (पा० सू० ५|४| ७७ ) इति निपातनात् । ताभ्याम् । वन्दारून् अभिवादकान् । 'शूनन्द्योरारु' ( पासू ३।२।१७३ ) इति ||१५||
अवलोक्य दूरादेव भूतलमिलन्मुकुटमणिकोरक प्रणिपत्यैन यथाशास्त्र परिपूज्य च प्रतिनन्दनमधिगत्य प्राञ्जलिरेतदवोचत् ||१६|| लोक्येति । स्पष्टम् ॥१६॥
,
भगवन् ! भरता द्विजराजेन पयोधिरिव पर मोल्लास सीमानं लम्भि - तोऽहमिदानी कि व्याहराणि किं वाऽऽचराणि यदादेशनिधिप्रसितो ममान्तरात्माऽऽत्मानमतोऽपि महान्त मन्येत इति प्रणयपेशल ब्रुवाणे धरणिसुत्रामणि स प्रत्यवोचत ||१७||
भगवन्निति । द्विजराजेति श्लिष्टम् । शेष स्पष्टम् ॥१७॥