SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ तृतीयो गुच्छक अत्युत्पन्नमना यावदनभिज्ञाततत्पदः । गुरुशास्त्रप्रमाणैश्च निर्णीत तावदाचर ।।७१॥ अव्युत्पन्नेति । वासनया ससार ससारेण वासनेत्यन्योन्याश्रयत्वात् प्रमातृवर्गस्य ससारान्त पातित्वाद् यावत्प्रमेयाणा स्वरूपवशेन सकीर्णत्वाच । तत एव-'श्रुतिविभिन्ना स्मृतयो विभिन्ना-' इत्येवजातीयज्ञापकत्वाच्च सत्यायेकत्रा विकल्पसमये यावत् पारमार्थिक उन्मेषो न स्यात् तावद् गुरुशासनकपरायणतैव ज्यायसीति उपदिशति । अव्युत्पन्न परमार्थाकलने अपरिचित मनो यस्य तथाभूत इत्यर्थ ।।७१।। ततः पक्वरुपायेण त्वयाभिज्ञातवस्तुना । शुभोऽप्यय आसनौघस्त्याज्यो निर्वहिताधिना ॥७२।। ॥ इति कर्मविचारः॥ तत इति । कषायगुणयोगात् कषाय ससारसरणहेतुर्वासनैव । वस्तुतस्तु बन्वहेतुत्वाद् अशुभवासनेव शुभवासनादि त्याज्या भवतीति तत्त्वम् ॥७२।। ॥ इति कर्मविचार ॥ सप्रति तज्ज्ञानमवतारयति यत्र खलु सर्व ज्ञेय परिसमाप्यते यथास्थितब्रह्मतत्वसत्ता नियतिरुच्यते । सा विनेतुर्विनेतृत्व दिनेयस्य पिनेयता ॥७३॥ यथास्थितेति । नियति - ब्रह्मतत्त्व यथास्थित सच्चिदानन्दस्वप्रकाशात्मना सर्वत्र समतया सर्वानुकूल्येन स्थित तत्सबन्विनी सर्वपदार्थाना सत्तैव भविष्यत्कालसबन्धेन व्यपदिश्यमाना भवितव्यताख्या नियतिरित्याहु ॥७३॥ प्ररोचनार्थ चतुर्भिर्ज्ञानशैलीमेव प्रपञ्चयति-- तदेकाग्रमना राम ! पौरुषोल्लासलालितः । ससारमरुसत्रस्तचित्ताधन्यसुधावधिम् ॥७४॥ जन्ममृत्युरुजाक्लेशप्रत्यादेशमहौषधिम् । जीवन्मुक्तिमहानन्दनिस्तरङ्गपयोनिधिम् ॥७॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy