________________
१०८
दशकण्ठवधम्
एवं पुरुषकारेण नेतरेण कदाचन । सर्वमासाद्यते वीर ! तस्मात्तत्र प्रयत्यताम् ||६६ ॥
या मनोपासनेत्यादि । वस्तुतो निष्कृष्य दैवाख्य वस्तु निर्वक्तुमशक्यमपि तदविकारमुपोद्वलयितु —' अत्यन्तासत्यपि हार्थे ज्ञान शब्द करोति हि ' इति न्या- या मनोवासनेत्यादिश्लोकपञ्चकेन दैनमुज्जीवयन् रामभद्रमाश्वासयति ॥ ६२६६ ॥
भगवन् ! अय प्राक्तनो वासनाप्रसरो यथा मा प्रयोजयति तथेव कृपणस्तिष्ठन् कि विदधामीति राघवेणोक्को वसिष्ठ आख्यत - सौम्य ! शुभाशुभेति द्विविधा सलु वासना । तत्र शुभया चेदिदानी नीयसे तदा शुभेन शाश्वत पद गन्तासि चेदशुभया तदैषा प्रसय निजेतव्यैव— ॥६७॥
भगवन्निति । कृपण कार्पण्यदोषोपहतस्वभाव इति भाव । शुभाशुभेत्यादि स्पष्ट प्राक् प्रपचितमपि ॥ ६७॥
प्राज्ञश्चेतन मात्रस्त्व न शरीर जडात्मकम् । अन्येन चेतसा तत्ते चेत्यत्व क्वेव वर्तते ॥ ६८ ॥ अन्यस्त्वा चेतयति चेत्त' चेतयति कोऽपरः । इम करचेतयेदित्थमनवस्था न शाम्यति ॥ ६६ ॥
प्राज्ञ इति, अन्य इति च । 'यो मनसि तिष्ठन् मनसोऽन्तरो य मनोन 'वेद' ( वृह० उप० ) इति श्रुत्या मनस प्रेरक प्राज्ञात्मा अन्य, तदधीने मनोवासनोद्भवे कथ मम स्वातन्त्र्यम् इत्याशङ्कय समावत्ते । अनवस्थाख्यो दोषो न शाम्यति अपितू देत्येव ||६८-६६॥
शुभाशुभाभ्या मार्गाभ्या वहन्ती वासनासरित् ।
योजनीया शुभे मार्गे प्रयत्नैः पौरुषाश्रितैः ॥७०॥
शुभाशुभेति । तथा च योगभाष्ये - 'चित्तनदी हि द्वेधा प्रवहति०
इत्यादि ॥७८॥
>