________________
आचार्यदण्डविरचिता
बहून्येतानि स्निग्धबहुलरोमसुकुमाराण्यजिनरत्नानि । आविकोऽयमनेकयावनप्रकारः क(द! )म्बलादिः । एषा वङ्गपुण्ड्रादिसम्भवा दुकूलजातिः। एता मगधपुण्डूसुवर्ण्यकुड्यदेश्यनागलिकुचबकुळवटयोनयः पत्रोर्णाः । कौशेयमिदम् , एते चीनपट्टाः, कार्पासिकमेतत् , तदापरान्तिकम् , एतन्माधुरं, माहिषकमिदम् , एष कुप्यराशिः कोऽस्य वोढा दृढं बधान रत्नभाण्डं यथा पथि न भ्रश्यति । भरो गरीयानशक्तोऽयं बोढुम् , अपि धिक् त्वां मोक्तुमेव जातम् । उद्धर यत्नेनारोपय स्निग्धमुग्रह (न् स ! ) भज्यतेऽद्य स्वाध्यायः । कीनाश किं मपानेऽपि हस्तमर्पयसि, कोपनक स्वमेव तावन्मे दूरमुह । हा दृष्टसारं मे फल्गुना विपरिवर्तयसि । दुर्मुख ! दृष्टमेभिः सारतरं मया लब्धमखरकमकर्करमकशुकमयमकमरकृमकर्मकमसिक्तं च मे मुक्ताजातमिदं तुष्टः कथं कथमिहागतमसन्तुष्टकिष्टदुष्टेनैकेन(?) बहूनि निस्तलम्थूलवृत्तन्निग्धभ्राजिष्णुगुरुश्वेतदेशविद्धान्यमूनि मौक्तिकानि, प्रभूतान्येतानि जातरूपरूप्यताम्रपात्राणि । त्वमपि चैषामर्थमु द्वह, महादानमिदं प्रवृत्तम् । अहो महात्मा महाराजो नैवं नापराह्निकः कर्णो राजा वा युधिष्ठिरो दृष्टवान् वसूनि(?) । कारणमत्र मन्ये मन्त्रिणामसन्निधिः । मा मैवं, न तेऽपि शुष्कषा गुण्ययोगश्रद्धारुद्धपरलोकदृष्टयः । हंसश्चायं हंसपरिवारश्च । सर्वथा समर एनं रक्षन्तु शक्रमुख्या लोकपालाः । लमतामयमष्टादशद्वीपलक्ष्मीपरिग्रहमग्रेसरं चक्रवर्तिनामत्यादित्यतेजसं तनयम् । इत्येतानि चान्यानि च यथाश्रद्धं व्याहरद्भिवह द्भिवोहयद्भिश्च धुम्ननातं द्विजातिभिरुपरुध्यमानेषु वर्त्मसु बलनिर्गमदर्शनबद्धरागैः पौरयुवकदम्बकैरन्योन्यविमर्द सम्बाधमारुह्यमाणासु सौधहर्म्यवळभासभागदेवतायतनचैत्यवृक्षप्राकारवलयप्रतोळीषु भर्तृस्नेहविहलाकुलाबलालोचनजलप्रसरनिरुद्धनिर्गमानां प्लन(?) इवापतति दृढतरे सेवाधर्मस्मरणे हरिहयवज्रामिपातघर्षरितकुलगिरिगुरुशिलापक्षनिर्घोषभीषणं रणितमाततान प्रयाणदुन्दुमिः।
दुन्दुभेश्च प्रळयाशनिदण्डचण्डपातेन बानिभुजेनेव हेमकोणेनामिहन्यमानस्य रसितमाकम्पितत्रिभुवनमन्तेषु दिशा दशानां चस्खाल । येन