________________
आचार्यदण्डिविरचिता
1
अथापरेधुरुदयमारुरुक्षति क्षतजरागपाटले पादपातपरा(ग?)हतक्षुमितगणद्वाहिनीपतौ पटुतरकरास्फालनोल्लस....न्यतेजस्तिरस्कारिणि रक्तचक्रधारिणि धरणिमृन्मकुटघटितस्पष्टमण्डलामकिरणसंहतौ प्रतिक्षणविजृम्भमाणदुःसहोमणि प्रतिपक्षता....द्याधरमप्रस्तुतस्तुतौ सुभट इव रथवराधिरूढे परिवर्तयति कालमात्मगत्यनुसारेण देवे सप्तसप्तौ कृतप्रभातमङ्गलाम (ङ्गले ? २) प्रौढगर्भभारमन्थरेव . . . . षु रचितभूषणामुदयगूढचन्द्रमण्डलामिवाल्पाल्पतारका. स्फुरणां शरत्प्रदोष(ब ! वे)लां मौलवृद्धवर्षवराधिष्ठितामनुसृतस्थविरहंसवृन्दामिव मन्दाकिनी देवीमुत्सुकप्रिय(जा ? जना )नुवर्तनमुहूर्तलम्बितपरिजनाङ्गनाससम्भ्रमानुयातां पुरस्कृत्य कालदूनैरिव गतिमनिष्टां गमयद्भिर्भराज्ञाक्षरैः प्रेर्यमाणाः दुःखोपहतमुखत्विषः कृष्यमाणबलावयवा दक्षिणां दिशमभि प्रत्यद्य(?) सकळत्रा अपि त्राणमन्यदलभमाना विन्ध्यगिरिमभ्यवर्तन्त मन्त्रिणः । ___अनन्तरं च सर्वस्यामेवोव्यां सर्वक्षत्रपिशुनाः कालरूपा इव चरितुमारभन्त (चो ? घो)ररूपा महोत्पाताः। तथाहि-प्रथममेव खभर्तृकाल. क्षयासत्तित्रासादिवोदकम्पत क्षितिः । अभ्यर्णर (तो ? णो)दयादिव व्यजृम्भन्त द्विगुणमुद्गर्भ (य ? )न्तो वाहिनीपतयः । जङ्गमभूभृच्छिरोमङ्गसौकर्यप्रत्ययोत्पादनायेव केनाप्यमज्यन्त स्थास्नूनामवनिस्फुरितरत्नोपलानि भूभृतां शिरांसि । समरोत्सुकराजलोकसाहाय्यार्थमिवर्तवः सर्व एव स्वचिह्नलक्ष्याः समन्ततः समं समाजग्मुः । अखिलमिव धरणिपृष्ठमाहवाङ्कणीकुर्वन्तः प्रसभोत्पाटितनिरस्तवृक्षवीरुधः क्षुण्णपाषाणशर्कराः क्षणमपि नोपरे(मू ? मुरु)प्रस्वनाः प्रभ्रमन्तः प्रभञ्जनाः। कालापसी इव कालसर्पाः प्रसर्पन्तः सर्वपार्थिवानामाविविशुः शय्यागृहाणि । अंटव्या इव दण्डविक्षेपा व्याघ्रादयः पुरा
1. L. about 20 letters.
3.
2 ..