________________
अवन्तिसुन्दरी ।
मण्डलचतुरश्रायसासु चावर्तवतीषु च रत्नमण्टपगर्मवापिकासु कदुष्णवारि. पूरितासु कनकपद्मशतावतंसितासु धर्म इव लीलया गन्धगजगामिनीमिः समं समक्रीडत। निबिडितासु च निशीथिनीषु मन्मथमथितधृतीनां दुर्दिनामिसारिकाणामासारजलापराधक्लिष्टनैपथ्येषु गात्रेष्वावरप्रतिसमाधीयमानमण्डनस्तासां च स्वजनवञ्चनापदेशकौशलेषु श्रूयमाणेषु संहर्षेणेवासन्नकृतकलीलानीलांशुकावगुण्ठनस्यान्धकारराशेरुपक्रियायामुपन्यस्तायामात्मनि पुरुषामिमानमारोपयन् , कचिद्ववनभित्तिस्पर्शपरम्परोन्नीतपद्धतौ कचित्तरलसौदामिनीदामदर्शितपुरोमागे कचिनागरिकपटहशब्दगम्भीरगर्जितमुहूर्तमात्रविह्वलावस्थाने क्वचित्प्रतिरोधकानामिवाम्बरग्राहिणां प्रथमाभ्राणामविरलशरवर्षासारसम्भ्रमाश्लिष्टमन्दिराङ्गणमार्गपादपस्कन्धे प्रसङ्गोदीरितरागाभिसरणसाहसे सानुकम्पप्रम(प.)दमापद्यमानः स्वतिशयोपचारसान्त्वनमहल (१) रसमनेकधा मुरतलास्यमत्युदारतरलितविभ्रमं बबन्ध ।
बन्धागारगर्भादिवाभ्रपञ्जरान्निर्गच्छति पुनरुच्छासमाजि भुवनेऽन्तर्गतैरावतप्रवन इव स्वस्तेमवने (?) चिरनिरोधसम्पीडिकास्वतामामर्षितार्तकरप्रतीकेष्विव (?) प्रक्षीणवारिषु वारिधरमहादोदरेषु, स्व....[मोद्घोषणविराममूकेषु स्तो(कि?क)केषु, गलितपयोधरांशुकासु लजयेव कापि लीनासु हादिनीषूदधिमहा. बलाहकाचूषितवर्षवारिपूरस्यान्तरिक्षसरसो [मरकत कुटीष्धिव स्फुटीभवन्तीषु ] नीलकण्ठकण्ठमेचकासु दिक्षु शुनासीर शरासनकलवर्णेषु शीर्णेषु शिखिबहेषु प्रतिबद्ध
1. A reads चरणमण्डप• page 19. 5. A reads र्गतैरापतप्रभन्न इव ध्वस्ते
मेघवने. page 19. , संहर्षेणावसन्न. 6. , सम्पीडितस्वधामामषातात. " 3. प्रमदामापद्य.
7. L. about 5 letters. , महत्वरस. We may read बलरसं.