________________
आचार्यदण्डिविरचिता
५
नभसः सुरचाप..[चन्द्रकिबोत्तरारसिता भून्योपगुप्तार्कगोगणा]गणतिथहप्तातक. स्रजः()सुजातजातिजातयो मुदितमुग्धयूथिकावर्षन्नववार्षिकीलता ललितलागलीकलिका मुकुलितनिचुळीथयः फलितपूतजम्बूपतयः [विकचकदम्बचुम्बि]वाचालमधुलिहः सलिलकणस्यन्दिमन्दमरुतो रुतमुखरभेकभेरीभीमागमनिशीथा निशिथिनीभेदाब्ददुर्दिनदिना(?)द्रुतमनोभिसारिकाभिद्रुतदयितोदवसिता विकसितवलाका[लीघ ]वलितमुवो भिन्नसिलिन्ध्रबन्धनाः सिन्धुरमामन्दगर्जितधनाघनस्तनयित्नवो नवजलसेकनिवृतिविनीतकेतकीगर्भखेदाः पादचारक्षमश्यामलशाडुलवनस्थला नीलकण्ठनृत्तलीलाविलासिनः सन्नपन्नगकुलाः कूलमुदुजोदकोद्रवत्सरित्तरक्रिणीशताः शतमखगोपावलीप्रवालमेखलाधृतवनस्थलीनितम्बपार्श्वविश्वविश्वम्भराजाररूढसरसः स्य यौवनावनजपनवस्य सनदायिनो (2) दीयमानदानवारियोगनिद्रासुखाः सुखमया इव प्रादुरासन प्रावृषेण्या वासराः ।
(तासु ! तेषु) च ग्रीष्मातपातुरत्रिलोकलक्ष्मीविश्रान्तिधारागृहेषु वर्षावासरेपु कुटचकुडलहारमालिनीमिर्लम्बकदम्बकाञ्चीदाम भिः केतकबर्हदन्तपत्रभूषितश्रवणपाशाभिर्मदमयललामलान्छितललाटिकाभिरागैरिकरागरञ्जितचरणपल्लवाभिः कुन्तलवलयिनीभिः सुन्दरीभिः कृतकिरातनितम्बिनीवेषविभ्रमाभिरटन्मृगेषु नटच्छिखण्डिषु, स्फुटन्नीपेषु, रटन्निर्झरेषु, वर्षजलधाराधौतरत्नोपलतलेषु क्रीडापर्वतेषु विजहार । धारारवद्विगुणबृंहितमदरागं च वार्षिकवृक्षवल्लीगुल्मगुलुच्छकच्छन्नमार्गेषु कृष्णागरुमारधूप सञ्चारोष्णेषु मणिदरीगृहेषु मत्तरामाद्वितीयो रेमे ।
1.. L. about a letters. 4. A reads पा पार्श्वविश्वम्भराङ्गावरूढ. 2. A reads मन्द्र. page 18. Shall
page 18. we read thayt14-. 5. पवनस्य....सन. " 3. , दकीद्रवत् . , 6. केतकदन्तबर्हपत्र. "