________________
अवन्तिसुन्दरी।
लनप्रतिस्तम्भनमार्दवकरणशीतीकरणप्रसादनस्नेहग्रहणवर्णक्रियागन्धोपसंहारषर्ग : सम्पादननेहविचारपतिसंज्ञामिस्त्रयोदशविधाभिरनेकावान्तरविकल्पाभिः क्रियामिरुपसंस्कृतेन स्वात्मोचितेन सरसं खाद्येनामृतातिशायिना पटुपाटलपरिमलामोदनिर्झरिणा स्पर्शानुमेयेन पानीयेनाहितधृतिराधाय धूमवर्तिमाचान्तो बहळपारिजातसौरभोद्गारिक्रमुकफलशकलानि शकवधूटीगण्डपाण्डुरां च ताम्बूलवीटिकां जरठपाटलीपुटक्रोडपाटलं च शङ्खचूर्ण त्रयं च तिक्तकटुकविशदं विमर्दोष्णं लपनलाघवकरं चोपयुज्य रज्यमानदशनावरणो मणिकुट्टिमपथेन गत्वा प्रसाधित भुक्तास्थानमण्डपमतिमृदुनि सौमपाण्डुनि स्थानदत्तचीनपट्टोपधानके पुष्पवाससुरभिणि हैमप्रीतिपादुकाप्रतिष्ठि(त)प्रवररत्नचित्रपादे पादपीठसनाथपार्थे प्रत्यासन्नसौवर्णप्रतिग्रहे शयनपर्यङ्कतले मुहूर्तलब्धविश्रमः सन्निहितेष्टसामन्त(:) चित्रालापचिरविनोदिनो विसृज्य णद् (१) विलम्बमाने कदम्बमुकुलकिञ्जरकपुञ्ज (२१)विषि त्वरितप्रवर्तितस्यन्दने सन्ध्यामुखचुम्बनाभिलाषिणि क्रमेण मन्दायमानोष्मणि मणिशिखासुकालोकलोपनेव(:) सुखविविक्तोद्गन्धिनैपथ्यरमणीयेन विजृम्भमाणमल्लिकामुकुलदामप्रलम्बोत्तरीयरमणीयेन मुन्दरीजनेन चन्दनसलिल. संक्षाळनशिशिरेषु स्मेरमल्लिकोपहारेपु सौधहम्र्थेषु (सु११६) मगस्त । सङ्गीतगीत. गोष्ठीभिश्च प्रियविदग्धमुहृत्सखः प्रदोषमनैषीत्। [उत्तरयामद्वयमुन्मद] मञ्जुवादि. नौजनमनोविधेयवृत्तिरगमयत् ।
एवं च परिसमापितग्रीष्मस्याशेषशिरीषश्रीमुषः क्षपितकरामञ्जरीत्विषस्त्वि. चिमत्सोमगो[लकरतिरस्क्रियारम्भजजम्भकाजनाभिनिबर्हणाज्ञा[विजृम्मि]ताम्भोदकोटयः कटिलकोमलतटितो विधटमानकुटचकुडलामोदलिप्तककुभः केसरसुरभित
1. Following this there should have been a synonym of sun in
the locative case. 2. A reads सुखालोकलोचनेन. page 17. 3. , सुमंस्त संशित. page 18.