________________
आचार्यदण्डविरचिता
दिदृशया कौतुकादिवाव्यवस्थितगगनानां खेदखेदि[वा ! ता]लक्तकरक्तमेघ. पल्लवानि भ्रान्तकुन्तलभ्र[ मितदुर्दिनो . . . . गीयमानखवि]क्रमापदानानि पश्यन् यन्त्रदोलाप्रेजितानीर(! )कोमलकु(सु)मकिसलयोत्तरच्छदासु विलोलपल्लवान्तरप्रविष्टपवनालोलितलतागृहोदरमणिवे[ . . . तची नांशुकान्तरीयाणामपि करनखमणिरश्मिसंवलितरत्नमेखलामयूखजालजल्पितदुकूलकर्मणामन्तःपुरसुन्दरीणामारणितरत्नशकरीतुलाकोटिपारिहार्याङ्गदानि प्रेहोलितहारदीधितिप्रकरकपूरचूर्णावमुच्यमानश्रमस्विन्नकुचतटानि मधुरविवाददत्तदन्तच्छदच्छिन्नसन्धिप्रतिसमाधानदत्तसदयलीलाचुम्बनानि गाढालिङ्ग(न)मृदितकण्ठदामप्रतिनिधीकृतप्रियतमेक्षणकुवलयसजि मनुविहलभगिरातिप्रपञ्चमूच्छिताङ्गजविदाहवेगानि रागमाम्यसमाहितरसोत्कर्षाणि राजवृषो रतानि निर्विशन्नुपवनविषयिणीमृतुविभूतिमनुबभूव ।
प्रवृत्तयोश्च विचित्रपुष्पयोश्चैत्रवैशाखयोदैत्यराज्यमिव शुचिशुक्रमयं, यमसौराज्यमिव प्रतिदिनसरुणायमानेनकरविरसीक्रियमाणलोकं, रक्षोराज्यमिव परिलघुप्लवालयमानहीनवाहिनीनलं, किंपुरुषराज्यमिव द्रुमगणगुरूष्मवारणवनोत्सेकरागहप्तकिंपुरुषं, मन्मथराज्यमिव मरुद्गणभ्रमितपत्रमण्डलोपरुद्धसुरभव(न)मुपातपमनुबुभूषुः उत्कुल्लकमलरक्तोत्पलानि प्रदीप्तानीव धर्मभयप्रविष्ठेन कन्दर्पानलेन, दलशीतलजालिकाजातशीतलजलतलानि(?) दारुणनिदाघगलितशिशिरकारागृहाणीव मधुकर कुलबहलकालान्धकारकालोदराणि करतलोदरीभिः सह सरांस्यवजगाई।
I. A reads अलककमेष. page 14. 2. , प्रेलिताना कोमल. page. 15. 3. L. about 7 letters.