SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। २७ प्रविशन्तीषु च प्रणयिनीषु प्रियसखीष्विव प्रत्युदस्थुः प्रसारितोर्मिहस्तदत्तगाढकण्ठग्रहा वाप्यः । प्रबलविपक्षविक्षेपवारिदुर्गप्रतिस्तब्धैः प्रसभमिवोदीर्णदण्डैः पुण्डरीकैर्विमुक्तास्तत्प्रतिद्वन्द्विषु मन्दशब्दं सुन्दरीमुखेषु शिलीमुखा निपेतुः । निजमज्जनाभ्युपायव्यसनितस्य पुरुषपातनिष्षधरगणस्य • भोषा भ्रान्तिदिदृक्षवः कटाक्षा जम्बामो (१)गर्भशायिनीनां १क्ष्मलाक्षीणामुदवर्तन्त क्षोभतरबितास्तरुणशफरकाः। नृपनिताम्बिनीबिम्बाधरचुम्बिनो नामिजजुरतिचपलाः सरस्तरङ्गाः अर्थमानमानमानसम् (!) अपितु विकसन्तो विसर्पिणां रागमूहः । प्रतिमुखस्थित कुवलयकोपादिवातिवामानि भामिनीनामरज्यन्त लोचनानि । चकोरलोचनाकुचारोहचक्रसम्मर्देऽपि कलुषीभवद्भिरम्बुमिरौत्यत्तिकत्वं जलस्वमनक्षरमाचचक्षे । गुरूनपि निरपेक्षो जघान वारिवेगो वरोरूणामुरोरुहभरान् । न हि विवेकः क्षुभितस्य । जलमध्ये मौनमाचरन्तो मेखलाकलापाः स्थान एवं गुणत्वं समर्थयाम्बभूवुः । अपास्तालक्तकैरपि रागेणैव दशनच्छदकिसलयैर्व्यजीयन्त रक्तकुवलयवनानि। होषामनेकशो रतिरणप्रणीतोत्थितानां प्रतिस्पर्धिजये सहायकृत्यम् (१)। इत्थं च वर्तमानासु वरपवतुणीतीनां वक्रव्यतिकीर्णापि विकीर्णितोर्मिषु करपुटसलिलसेकलीलाभूतालिकासु प्रहेलिकासु(!) महीशोऽपि महावराहू इव वहन् वक्षसा वनुमती देवीमाकुलाकुलामालोलयन्नपश्चिचाल । चिकुरांसलटश्चिक्रीड) क्रीडासु प्रकीर्णप्लुतनिम्नगाधवस्यास्थलव्यचारपतितद्रव्यविचयव्यतिकरमेदादष्टमार्गया जल 1. A reads निमज्जनायुपाय. page 15. 2. , कटाक्षानम्भोगर्भ• page 16. Shall we read कटाक्षा इवाम्मोगर्भशायिनीनां. 3. , अर्थमानानामाननमपि. 5. A reads कोडादिव. page 16. , मार्गमृहु: 6. , अपास्तालककैः केनापि निरा शेनेव. page 16.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy