________________
अवन्तिसुन्दरी।
मापूर्य स्वद्गुणप्रेमप्रस्नुतानां त्वन्मातॄणां स्तन्यमिदम्। अतिबहुत्वादासा प्रत्येकं स्तनपानयत्नगौरवं तव स्याद्, अतोऽस्मामिरेकत्रैव संभृतमिति प्रजिषाय । एवंविधाश्च सम्मानभाजः प्रतिमासं प्रतिपक्षं प्रतिदिनमित्यवर्तयत् पृथिवीपतिः ।
स च तथानुगृह्यमाणो गन्धमादनप्रभृतिभिश्च वरकृतैः संस्कृतप्राकृतानां च काव्यानां लक्षणैर्दक्षिणापथं सनाथमकरोत् । नृपतिनिर्बन्धपरिणीतश्च ब्रह्ममयान् समग्रवाङ्मयाधारभूताननन्तमूलानचलकुलस्थितिविहितसनिवेशानम्बुराशिगम्भीरानुज्ज्वलराजहंसोपग्रहप्रकाशतेजसो लोकानिव त्रीन् सिंहविष्णुमनोरथातिलोभनाम्नस्तनूजानजीजनत् । येषां गृहेषु प्राधीतपटुब्रमघोषःस्थानव्याख्यायमानसर्वशास्त्रध्वनिः, अनाजनवरणपद्मजल्पाकनुपुराहृतमवनदार्षि. काकलहंसकोलाहलः, सकलातिथिसार्थसन्तर्पणकलकलो, गन्धपरिमलप्रान्त. भृङ्गमण्डलीझबारामतिरभिमतगृहदेवाराधनपरपुरन्धिमण्डलारब्धबहुविधोत्सवस्वनश्च पल्लवदानशक्तिघोषणापटह इव दिवानिशमिश्चितस्पदचतुरसञ्चरसरस्वतीभूषणरवमन्थरो दध्वान ।।
मध्यमस्तु तेषां मनोरथ इव चिरेणोपपन्नः कलिजिगीषोधर्मस्य माहात्म्यवतो महि तमहाशब्दोघपूरितान् महीभृन्मानितान् मर्यादारक्षणोचितान् महागुणरत्नराशिभाजो महासत्त्वान् महोदधीनिव मध्यमो लोकश्चतुरो दामोदरभवदाससिंहविष्णु(वीर)दत्तनानो ब्रह्माधिष्ठितान् सुतानलमत ।
तेषां तु कनीयसो निसर्गशुद्धवृत्तस्य वीरदत्तशर्मणो ब्रह्मर्वसिष्ठस्येवारुन्धती सतीनाम[ग्रगामिनी गौरी नाम माठरसगोत्रा बामणी गृहिणीपदमध्यतिष्ठत् । स तस्यामनेकदुहितृजन्मजातोद्वेगशान्तये तन्तुमेकं
1. May be read सम्मानना.. 4. Read अश्चितपद. 2. A reads तथागृह्यमाणगन्ध, 5. A reads तेषां मनोरथो मनोरथ. page 7. 3. , प्रभृतिभिः श्रीवर• page 7. 6. , नाम कामिनी.