________________
भवन्तिसुन्दरी।
१८९
प्राणसमा । तावुभौ विरहस्य परस्परमायुरविन्दयित(?)मिन्द्रनीलकुवलयमकरन्दबिन्दुचन्द्रकिते बिन्दुसरस्यभूव भूयो हंसमिथुनम् । अशप्यावहि तत्र चामर्षिणा नारदेन तत्क(चिन्त ! चित)मच्युतार्चनकाश्चनकमलकलापमुच्छोषयन्ती चञ्चूचापलेन वर्षगणान् वियुज्येथामिति। मोहात्तु तदनवकर्ण्य केसरमधुमण्डपायिनोरेवावयोरासन्नतीरसन्तानकवनविहारिणा रम्भामुखं विलोक्य कथमस्पष्टकरणवृत्तयस्तियश्चोऽपि शप्यन्ते मुनिभिरकरुणैरिति करुणायितं कुमारण नळकूबरेण । कारुणिकत्वमस्य तावद् , भाविनि भवे भविष्यस्यनयोरेव सूनुरिति तमप्यशपदशृङ्खलामों महर्षिः। अमुना पुनरनुप्रसादितः प्रव्यथितेन मानुष्यके, षोडशवर्षपा(रि ? र)णीयमावयोर्वियोगार्णवमाभिज्ञानिकं च पूर्वसामस्मरणं तस्यापि साघोर्जातमात्रस्य चक्रवर्तिसख्यमुपरि चाभीमान् भोगानकल्पयत् । एष त्वहमायुषोऽपवर्गे राज्यमारवहनवैवधिकस्य वणिक्चक्रचूडामणेः पद्मोद्भवस्य नाम पाटलि(पुत्र) पुत्रो (र)त्नोद्भवो नामा(ह १ भव)म् । अनुजौ मे सुश्रुतसुमन्त्रनामानौ। तौ च राजपुत्राय राजहंसाय दत्त्वा सखायौ स्वकुलकर्मानुवृत्तये न्ययुत मां जनयिता । लुल्वानश्च(?) पुनरहं यदृच्छयेमां भूमिमेकाकी कृच्छूलब्धैरसुभिरस्वस्थवातविप्लुतया(ना ! नोs)पि नक्रालयादध्यगच्छम् । आत्मच्छन्नचारिणा च देवेन च दर्शितेऽस्मि मैष पुष्पारामे स्फुटायमानपूर्वजन्मस्मृतिः (१) । अत्र किल द्वीपे यवनद्वीपल(वना ! लामां) खेलगामिनी सुरक्षितपतिव्रतावतां सुव्रतामहमवापम् । अत्रैव किल मूलदेवमायामोहितनृपतिनिर्वासितः सरिदनुग्रहात् पुनरवाप्य हृदयवल्लभा(वो? मवा)त्सम् । मत्साचिव्यनिर्जितारिवर्गेण (वा? चा)त्रैव किल पात्रीकृतः क्षितिभुजाहमात्मनिर्विशेषस्यैश्वर्यस्य । त(व !)देवेदं ममोपवनमुपरते मयि शिथिलरक्षाप्रत्यक्षप्लक्षप्रचुरकाननप्रायम् । प्रायशो हृदयमसौ तपस्वी