________________
अवन्तिसुन्दरी ।
आचरितमहर्षिचरणवन्दनं च शिरश्चरितार्थमिव सकलत्रिभुवनाधिपत्यचिह्नचूडालाञ्छितमिव बहु ( पु ? ) मन्यमाने महीपतौ स मुनिरा कपिलतार के - णांशुमन्तमिव सन्ध्याकाशे तमनुरञ्जयन्नरुणकराग्रसंहा (र) मुकुलितकमलकोमलाञ्जलिपुटमधोमुखं निपतन्त (मिम) तिप्रसारितेन चक्षुपा पुनः पुनरभिनिरूप्य समुत्पन्नाभिज्ञः संपृष्टाव (?) समस्तमेव हस्ततलामलकमिव तद्गतमुपजननात् प्रभृत्युदन्तम्। उल्लसदानन्दजललवग्रथितपक्ष्मालः सु (न्धि ? घी) रोऽपि सुदूरोत्सृष्ट लोकयात्रारसोऽपि सुप्तस्नेहवृत्तिरपि सुतप्ततपः पिण्डवीत संभ्रम संसारसङ्गभङ्गो निजाम्योऽपि किमपि स (म्प्रम्)मस्पृष्ट इव मुक्तविष्टरः कतिपयानि पदान्यसङ्गळन्दरुणवल्लरीरोत्तरीयो(?) गत्वा निर्मोकलवानुबद्धजरदुरगनिभौ जराघवळरो (म) जालौ भुजौ प्रसार्य सु (तत ) वद ( लव) निपालमति दुर्भर संभावनानिपीडितकर मालिङ्गय क्रमेण चानामयपरिप्रश्नादिकमादिष्टक्रियातिक्रमण भीरुभूपलब्धावकाशमा शृङ्खलप्रहर्षो महर्षिर्मधु मन्मत्र साधितमधुपर्क दानावसानं (रि ? वि) धिमहितमन्वतिष्ठत् ।
"
उपविष्टे च तदुपदिष्टे स्थाने तदनुग्रहातिभूमिगमनयन्त्रणापरतन्त्रमनसि पार्थिवे तमदृष्टपूर्वमादरातिशयमाश्चर्यभूतं महामुनेरुपलभ्य सवेससा (?) मुनिसभा कोऽन्वयः किमभिजनः किन्नाम किलायं, ( कि )मनेन जन्मान्तरे तपश्वरितं केन वा प्रयोजनेना ( प १ ) मेनां भुवमपि सङ्क्रान्तः, कथं वास्य महानुभावस्य परिमितपरिवारता । तथा चेदमपरमत्याश्चर्यम्, अस्य किल महात्मनस्तिलमात्रमपि नोपलक्ष्यते शरीरावयवेषु यदनामुक्तमप्राम्यैरित्रणकिणाभरणैः । कथमदेवासुरमतारकामयं वा रणमुपेत ( म ? स्यै) तादृशः प्रहारविमर्दसम्भवः । सम्भवे वा कथमिवैवमनेकशतशस्त्रमार्ग जर्जरितेषु गात्रेष्वक्षरितवतामसूनामवस्थानमासीत् । अत्युत्प हलबलात्कृतापि गुरुयन्त्रणया गरीयस्यानुयो (तक्तु) मपारयन्त्यतिष्ठत् ।
2003 6000
1. L about 10 letters
19
१४९
1