________________
अवन्तिसुन्दरी ।
फेनहिरण्मणिहरितम बरतलमाचमे । भ्रमरपुञ्जनीलेन बहुलपरागेण पटुरयभरितसहस्रखुरखुरविकटपाण्डराः फणाभित्तयः(१)। तदा च बाडव इव धूलिजलधे. रुल्ललास क्वचिदवनिपालभूषणानामालोकप्रवाहः । कलुषरजःपराभवपिशुनमुत्पाततारकावर्षमिव कचिदुत्ससृजुः । करशीकरभिन्दुजालकुञ्जरघटाघटितकर. प्रचाराश्च मन्ये तमांसीति रजांसीति क्वचिदपाहरन् परिपतन्तश्चामरेन्दवः(?) । जल ....नन्धूलि....रमन्त कुञ्चितालोलदुकूलजिह्वाध्वजभुजङ्गमास्त्रिविष्टपाविष्टम्मगर्वितपातालजिगीषयेव पुनरपारे पारावारपयसि बलपरागः । .... लशैलक्षोदराशिनिकाशेन तादृशेनाहवरेणुसम्भारेणायमनावष्टब्धा नोपययुः स्थलभावं जलनिधयः । ततश्च करिकरशीकरासारवारिवेणिवाहि .... यासितबलविलासिनीकपोलघर्मजलवर्षिणा खरखलीनखणुखणायमानतुरगमुखविक्षेपविस्मृत(?)फेनलालालवस्तबकशमलितेन वलदलिदलितमही....लवासारधूमरेण कटकसंकटमिवापहर्तुमितस्ततः परिभ्रम्य यथाशक्ति शमितमुनिराजश्चतुरचारचारुचारभस. साटोपदलितधौतासिलतावचनप्रेरितेन पृतनामारुतेन(?) ।
प्रशान्ते च रजसि प्रचलकदलिकादुकूलचिरमृष्ट इव स्पष्टतामगादाकाशमणिदर्पणः । चटुलतरतुरङ्गबृन्दवेगविक्षिप्तानीव दूरीबभूवुर्दिङ्मुखानि । नृपशतमकुटमकरमुखपलीननिर्गत इव रराज रत्नालोकलोहिताकवो दिवसः । सागरसलिलोन्मन्ना इवादृश्यन्त रत्नदीधितिखचितचलचामरचटुलपक्षाः कुञ्जरकुलगिरयः । करिकुलचरणसहस्रसङ्घट्टधनीकृता वज्रमयीव प्रबलेऽपि बलक्षोभे विधुरतां पुनर्नाविक्षदेव मेदिनी । निर्धीतप्रसवोल्वमिवोल्वणरजोमुक्तं निर्मलीबभूव त्रिभुवनम् । अनिषिद्धप्रचारा हरिण्य इव स्वैरमारेभिरे. हि
1,2. The two lacanae cover 4. L. about 22 letters. about 12 letters. 5.
12 , 3. L. about 28 letters. 6. Shall we read लोहितातपो,