________________
१४
आचार्यदण्डिविरचिता
कुलान्धकार कल्माषितं कुडलायमान कोमलाञ्जलिकमलवनसहस्रं चित्रीयमाणमम्बरतलं ददर्श ।
जय जयेति च तारतरमुद्गायतो वन्दिवृन्दस्यामन्ददुन्दुभिध्वानानुयातमायतशङ्खशब्दमिश्रम् अतिकलकाकलीकलित काहलरणमूर्जितप्रहृतमर्द मस्निग्वनिप्रादमांसळमनुसृतकांस्यतालसंकुलमा लोकशब्दमालोकयन् (१) आकर्णपल्लवमा भूमिलम्बबालनीलचामरकलापाममलकार्तस्वरकलितालङ्गारकान्तां चारुकोमलपुष्करकरां
1
जयलक्ष्मीमिव जयलक्ष्मी ससम्भ्रमाधोरणसंज्ञानिवेदितां द्विरदकन्यकामारुरोह |
....
आरुह्य च हंसतूल गर्भप्रदिष्ठचीन पट्टोपधाने परिस्तोमवस्यनेकरलचित्रपर्यन्ततया यात्रारम्भयोग्यानीन्द्रमिवादौ जित्वा गृहीतानीन्द्रचक्राणीवावहति सुविहितप्रहरणाचापे ( 2 ) महति कनकपर्याणके मुखनिषण्णः पश्चिमासनगतेन हेमाङ्गदवलयरत्नहारदीधितिस्तबकचित्रवारवाणेन बाणदेवनाम्ना सामन्त पुत्रेण कल्पवृक्षेणेव फुलरजतपुण्डरीकस्योद्यमानस्य मध्यार्पितमहामणिमयूखपटलपाटलांशुकचितलीलावेष्टनस्य बालातपरक्तशारदाम्भोधरानुकारिणश्चामीकरविकट
दण्डस्य प्रलम्बतरलस्थूल मुक्त | कला पस्मेर पर्यन्तभागस्य महतः श्वेतातपत्रस्य निसर्गशिशिरछायया वार्यमाणमातीण्डकराव लेपः, पक्षकरेणुवर्णिनीभिर्वारयुवतिभिराधूयमानचामराभिः प्रावृण्मेघ इवोपान्तचलवलाकाभिरभ्रालोत्संगिनीभि (?) सौदामिनीभिरुद्धासमानः समतिक्रम्य दुरुदासं वहन् महाजनत्वाज्जगदुद्दारिणीव समग्राणि (?) सकुतूहलपौरसुन्दरी जाल जालमार्ग प्रति लोचन सहस्रसंछादितामुदञ्चदुत्पलप्रचयमेचकामिव भवनदीर्घिकां राजहंसो राजवीथीमवगाहे |
·
नगर्याश्च सपदि बकमरपीड्यमान भूभाग शिथिलमूलडोलायमान भवन मण्डलाया ( त ?) मत्तगजकर्णतालपवनपराहृतध्वजपताकाया भर्तृवियोग दुःखात् सभुज
1. A spa.e for 5 letters is left in the Ms.