________________
wwwwwwwwwwwww
*
ARKARMA-SHKKAR* 1८८ बृहज्जैनवाणीसंग्रह
किरणैः सकलं प्रतिवुध्य बुद्धः कमलायतेक्षणः ।। १२१॥ हरिवंशकेतुरनवद्यविनयदमतीर्थनायकः । शीलजलधिरभवो विभवस्तत्त्वमरिष्टनेमिजिनकुंजरोऽजरः ॥ १२२ ॥ त्रिदशेन्द्रमौलिमणिरत्नकिरणविसरोपचुम्बितम् । पादयुगलममलं
भवतो विकसत्कुशेशयदलारुणोदरम् ॥ १२३ ॥ नखचन्द्र-५ क रश्मिकवचातिरुचिरशिखरांगुलिस्थलम् । स्वार्थनियतमनसः । सुधियः प्रणमन्ति मन्त्रमुखरा महर्षयः ॥ १२४॥ युतिमद्रथांगरविविम्वकिरणजटिलांशुमण्डलः । नीलजलजदल-1
राशिवपुः सहबन्धुभिर्गरुडकेतुरीश्वरः ॥१२५॥ हलभृच्च ते । । स्वजनभक्तिमुदितहृदयौ जनेश्वरौ । धर्मविनयरसिकौ सुतरां ।
चरणारविन्दयुगलं प्रणेमतुः ॥ १२६॥ ककुदं भुवः खचर। योषिदुषितशिखरैरलंकृतः । मेघपटलपरिवीततटस्तव लक्ष
णानि लिखितानि वज्रिणा ॥ १२७ ॥ वहतीति तीर्थमृषिमिश्च सततमभिगम्यतेऽद्य च । प्रीतिविततहृदयैः परितो । * भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८ ॥ बहिरन्तर
प्युभयथा च करणमविधाति नार्थकृत् । नाथ युगपदखिलं १ च सदा त्वमिदं तलामलकवद्विवेदिथ ॥ १२९ ॥ अतएव ।
ते बुधनुतस्य चरितगुणमद्भुतोदयम् । न्यायविहितमवधार्य । जिने त्वयि सुप्रसन्नमनसः स्थिता वयं ॥ १३०॥
२३ पार्श्वनाथस्तुति। ___ तमालनीलैः सधनुस्तडिद्गुणैः प्रकीर्णभीमाशनिवायु॥ वृष्टिमिः। बलाहकै.रिवशैरुपद्रुतो महामना यो न चचाल