________________
*** **- - *
* वृहज्जैनवाणीसंग्रह। * यते सर्वमुनींद्रवृदैर्यः स्तुयते सर्वनरामरेंद्रैः। यो गीयते वेद- .
पुराणशास्त्रैः स देवदेवो हदये ममास्तां ॥१२॥ यो दर्शनज्ञानसुखस्वभावः समस्तसंसारविकारवाह्यः। समाधिग-1 । म्यः परमात्मसंज्ञः, स देवदेवो हृदये ममास्तां ॥ १३ ॥ * निषूदते यो भवदुःखजालं, निरीक्षते यो जगदंतरालं । ।
योतर्गतो योगिनिरीक्षणीयः स देवदेवो हदये ममास्तां * ॥ १४ ॥ विमुक्तिमार्गप्रतिपादको यो, यो जन्ममृत्युव्य
सनाद्यतीतः । त्रिलोकलोकी विकलोऽकलंकः स देवदेवो हदये ममास्तां ॥ १५ ॥ क्रोडीकृताशेषशरीरिवाः, रागा
दयो यस्य न संति दोषाः । निरिद्रियो ज्ञानमयोऽनपाया, * स देवदेवो हदये ममास्तां ॥ १६ ॥ यो व्यापको विश्व
जनीनवृत्तः, सिद्धो विबुद्धोधुतकर्मबंधः । ध्यातो घुनीते सकलं विकारं, स देवदेवो हृदये ममास्तां ॥ १७ ॥ न स्पृश्यते । कर्मकलकदोषैः यो ध्वांतसंधैरिव तिग्मरश्मिः । निरंजनं नि
त्यमनेकमेकं, तं देवमाप्तं शरणं प्रपद्ये ॥ १८॥ विभासते * यत्र मरीचिमाली, न विद्यमाने भुवनावभासि । स्वात्मस्थि
तं बोधमयप्रकाशं तं देवमाप्त शरणं प्रपद्ये ॥ १९॥ विलोक्यमाने सति यत्र विश्व, विलोक्यते स्पष्टमिदं विविक्तं । शुद्ध शिवं शांतमनाद्यनंतं, तं देवमाप्तं शरणं प्रपद्ये ॥२०॥ येन । * क्षता मन्मथमानमूर्छा, विषादनिद्राभयशोकचिंता। क्षयोन* लेनेव तरुप्रपंचस्तं देवमाप्तं शरणं प्रपद्ये ॥ २१ ॥ न संस्त* रोऽश्मान तृणं न मेदिनी विधानतो नो फलको विनिर्मितः।